________________
प्रथमं पर्व
त्रिषष्टिशलाकापुरुषचरिते
चतुर्थः
सर्गः श्रीऋषभस्वामिचरितम् ।
॥ १८२ ॥
तस्योपयोगमादित्सुश्चक्ररत्नस्य दिग्जयम् । स्नानागारं ययौ राजा, मङ्गलस्नानहेतवे ।। १४ ।। विमुक्ताभरणश्रेणिः, शुभस्नानीयनस्त्रभृत् । न्यषदत् प्राङ्मुखस्तत्र, स्नानसिंहासने नृपः ।। १५ ।। सुद्रुपुष्पनिर्यासमयैरिव सुगन्धिभिः । सहस्रपाकप्रमुखैस्तैलैरभ्याञ्जि भूपतिः ।। १६ ।। संवाहनाभिर्मासा-ऽस्थि-त्वग-रोमसुखहेतुभिः । चतुर्विधाभिस्त्रिविधैर्मुदुमध्यदृढः करैः ।। १७ ।। मर्दनीयामर्दनीयस्थानविज्ञाः कलाविदः । नृपं संवाहयामासुः, संवाहकनरास्ततः ।। १८ ॥ आदर्शमिव भूपालमम्लानधुतिभाजनम् । सूक्ष्मेण दिव्यचूर्णेनोद्वर्त्तयामासुराशु ते ।। १९ ।। काश्चित् करोद्धृतस्वर्णपयस्कुम्भा वरस्त्रियः । उन्नालनव्यनलिना, इव लावण्यवापयः ।। २० ।। स्त्यानीभूय पयांसीव, गतान्याधारतामपाम् । राजतानम्बुकलसान्, बिभ्रत्यः काश्चिदङ्गनाः ॥२१ ।। लीलानीलोत्पलभ्रान्तिदायिनश्वारुपाणिषु । इन्द्रनीलपयस्कुम्भान्, दधानः काश्चन स्त्रियः ।। २२ ।। नखरत्नप्रभाजालवर्द्धमानाधिकश्रियः । दिव्यरत्नमयान् कुम्भान्, बिभ्रत्यः सुभ्रुवोऽपराः ।। २३ ।। सुगन्धिभिः पवित्राम्बुधाराभिर्धरणीधवम् । क्रमेण स्नपयामासुर्जिनेन्द्रमिव देवताः ।। २४ ॥ कृतस्नानोऽथ भूपालः, कृतदिव्यविलेपनः । वासोभिः शोभितः शुभैः, ककुब्मासैरिवाऽभितः ॥२५ ।। ललाटपट्टे मङ्गल्यं, चान्दनं तिलकं दधत् । यशोद्रुमस्याऽभिनवं, प्ररोहन्तमिवाऽङ्कुरम् ।। २६ ।। मुक्तामयानलङ्कारान्, स्वयशःपुननिर्मलान् । तारकाप्रकरांस्तारांस्तारापथ इवोद्वहन् ।। २७ ।। चञ्चन्मरीचिनिचयव्रीडितोष्णमरीचिना । प्रासादः कलसेनेव, किरीटेन विभूषितः ।। २८ ॥ मुहुरुत्क्षिप्यमाणाभ्यां, वारनारीकराम्बुजैः । कर्णोत्तंसायमानाभ्यां, चामराभ्यां विराजितः ।। २९ ।।
भरतस्य दिग्जयार्थ प्रयाणम् ।
|| १८२||