________________
| चतुर्थः सर्गः ।
प्रथमं पर्व
त्रिषष्टिशलाकापुरुषचरिते
चतुर्थः
सर्गः श्रीऋषभस्वामिचरितम् ।
।। १८१ ॥
चक्रपूजा।
इतश्च भरतश्चक्री, विनीतामध्यवर्मना । प्रययावायुधागारं, चक्रस्योत्कोऽतिथेरिव ॥ १ ॥ तदालोकनमात्रेऽपि, प्रणनाम महीपतिः । मन्यन्ते क्षत्रिया ह्यस्त्रं, प्रत्यक्षमधिदैवतम् ।। २ ।। रोमहस्तकमादाय, भरतस्तदमार्जयत् । भक्तानां प्रक्रिया ह्येषा, न रत्ने तादृशे रजः ।। ३ ।। स्नपयामास तत् तोयैः, पावनैरवनीपतिः । उदयन्तमिव प्राय॑सरित्पतिरहप॑तिम् ।। ४ ।। स्थासैकान् स्थापयामास, तत्र पूज्यत्वशंसिनः । पृष्ठे धुर्यगजस्येव, राजा गोशीर्षचन्दनैः ॥ ५ ॥ पुष्पैर्गन्धैश्चूर्णवासैर्वासोभिभूषणैरपि । नृपस्तत् पूजयामास, साक्षादिव जयश्रियम् ।।६ ॥ तस्याऽग्रे तन्दुलै रौप्यैरालिखत् सोऽष्टमङ्गलीम् । पृथक् पृथग मङ्गलायेवैष्यदष्टककुश्रियाम् ।। ७ ॥ पञ्जवणैश्च कुसुमैरुपहारं तदग्रतः । विचित्रचित्रामवनी, कुर्वाणमकरोन्नृपः ॥ ८ ॥ दिव्यचन्दनकर्पूरप्रायं धूपमथोत्तमम् । नृपः प्रयत्नाच्चक्राग्रे, द्विषद्यश इवाऽदहत् ।। ९ ।। त्रिश्च प्रदक्षिणीचक्रे, चक्रं चक्रधरस्ततः । पदान्यपागात् सप्ताष्टान्यवग्रहाद् गुरोरिव ॥१०॥ वामं जानु समाकुञ्च्य, दक्षिणं न्यस्य च क्षितौ । राजा चक्रं नमश्चक्रे, तमिव प्रणयी जनः ॥ ११ ॥ तत्रैव च कृतावासश्चक्रस्याऽष्टाहिकोत्सवम् । चकार साकार इव, प्रमोदो मेदिनीपतिः ।। १२ ।। चक्रपूजोत्सवश्चक्रे, पौरेरपि महर्द्धिभिः । पूजितैः पूज्यमानो हि, केन केन न पूज्यते ? ॥ १३ ॥ १ उत्कण्ठितः ।२ प्रमार्जनसाधनविशेषम् । ३ प्रक्रमः रीतिर्वा । ४ पूर्वसमुद्रः । ५ थापा' इति भाषायाम् । ६ राजानम् ।
|| १८१ ।।