________________
त्रिषष्टिशलाकापुरुषचरिते
प्रथमं पर्व तृतीयः
सर्गः श्रीऋषभस्वामिचरितम् ।
॥१८०॥
तीर्थे तत्र समुत्पन्नो, गोमुखो नाम गुह्यकः । वराऽक्षमालाशालिभ्यां, दोभ्या दक्षिणपार्थतः ।। ६८० ।। मातुलिङ्गपाशभृद्भ्यां, वामदोभ्यां च शोभितः । हेमवर्णो गजरथः, पार्श्वस्थोऽभूत् ततो विभोः ॥ ६८१ ।। ।।युग्मम्॥ नामतोऽप्रतिचक्रेति, हेमाभा गरुडासना । वरप्रदेषुभृच्चक्रिपाशिभिर्दक्षिणैर्भुजैः ।। ६८२ ।। वामहस्तैर्वनुर्वज्रचक्राङ्कुशधरैर्युता । तत्तीर्थभूरभूत् पार्श्वे, भर्तुः शासनदेवता ।। ६८३ । ।युग्मम्।। ततो विहर्तुमन्यत्र, जगाम भगवानपि । महर्षिभिः परिवृतो, नक्षत्रैरिव चन्द्रमाः ॥ ६८४ ।। गच्छतः स्वामिनोऽभूवन्, भक्त्येव तरवो नताः । अधोमुखाः कण्टकाश्च, शकुनाश्च प्रदक्षिणाः ।। ६८५ ॥ ऋत्विन्द्रियार्थानुकूल्यं, वायोरप्यनुकूलता । भर्तुर्जघन्यतोऽप्यासीत्, पार्श्वे कोटिर्दिवौकसाम् ।। ६८६ ।। भवान्तरोद्भूतकर्मच्छेदालोकभयादिव । नाऽवर्धन्त कचाः श्मश्रु, नखाश्च त्रिजगत्पतेः ।। ६८७ ।। स्वाम्यगाद् यत्र नो तत्र, वैरमारीत्यवृष्टयः । दुर्भिक्षमतिवृष्टिर्वा, भये च स्वाऽन्यचक्रजे ।।६८८ ।।
विश्वविस्मयकरैरिति प्रभु भिभूरतिशयैः समन्वितः ।। संसरज्जगदनुग्रहैकधीः, क्ष्मामिमां विहरति स्म वायुवत् ।। ६८९ ।।
* * * इत्याचार्यश्रीहेमचंद्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये प्रथमे पर्वणि | भगवद्दीक्षा-छद्मस्थविहार-केवलज्ञान-समवसरणव्यावर्णनो नाम तृतीयः सर्गः।
यक्ष-यक्षिण्यौ
ऋषभप्रभो
विहारः,
अतिशयाश्च ।
।। १८०॥
* गुह्यकः-यक्षः । १ मातुलिङ्गः । बीजोरु' इति भाषायाम् ।२ मारी रोगोपद्रवः, ईतयः प्रसिद्धाः । ३ स्वचक्र परचक्रजाते भये ।