________________
त्रिषष्टिशलाकापुरुषचरिते
प्रथमं पर्व तृतीयः सर्गः श्रीऋषभस्वामिचरितम् ।
।।१७९ ॥
बलिः ।
मृगेन्द्रासनमारुह्य, पूर्ववत् पूर्वदिङ्मुखः । अनुशिष्टिमयीं स्वामी, विदधे देशनां पुनः ।। ६६५ ।। देशनोद्दामवेलायाः, स्वामिवारिधिजन्मनः । मर्यादायाः प्रतिरुपा, तदाऽपूर्यत पौरुषी ।। ६६६ ॥ अत्रान्तरे च कलमैरखण्डैर्निस्तुषोज्जवलैः । विनिर्मितश्चतुःप्रस्थीप्रमाणः स्थालसंस्थितः ।। ६६७ ।। दिविषन्निहितैर्गन्धैर्द्विगुणीकृतसौरभः । प्रधानपुरुषोत्क्षिप्तो, भरतेश्वरकारितः ।।६६८ ।। देवदुन्दुभिनिर्घोषप्रतिघोषितदिङ्मुखः । अन्वीयमानः प्रोद्गीतमङ्गलैर्ललनाजनैः ।। ६६९ ।। पौरैः स्वामिप्रभावोत्थपुण्यराशिरिवाऽऽवृतः । पूर्वद्वारेण समवसरणे प्राविशद् बलिः ।। ६७० ।। प्रभुं प्रदक्षिणीकृत्य, सोऽक्षिप्यत बलिः पुरः । वस्तुं कल्याणसस्यानामिव बीजमनुत्तमम् ।। ६७१ ।। अन्तरिक्षान्निपततोऽन्तरालेऽपि समाददे । तस्याऽर्धममरैर्मेघपानीयमिव चातकैः ।। ६७२ ।। तस्य भूमिगतस्याऽधू, जग्राह भरतेश्वरः । शेषं तु गोत्रिण इव, विभज्य जगूहुर्जनाः ।। ६७३ ।। पूर्वोत्पन्नाः प्रणश्यन्ति, रोगाः सर्वे नवाः पुनः । षण्मासान् नैव जायन्ते, बलेस्तस्य प्रभावतः ॥ ६७४ ॥ अथोत्थायोत्तरद्वारवर्मना निर्ययौ प्रभुः । अन्वीयमानो देवेन्द्रैः, पद्मखण्ड इवाऽलिभिः ।। ६७५ ॥ रत्नमयस्वर्णमयवप्रयोरन्तरस्थिते । व्यश्राम्यद् भगवान् देवच्छन्द ईशानदिस्थिते ।। ६७६ ।। तदानीमृषभसेनो, गणभृन्मुखमण्डनम् । भगवत्पादपीठस्थो, विदधे धर्मदेशनाम् ।। ६७७ ॥ स्वामिनः खेदविनोदः, शिष्याणां गुणदीपना । उभयतः प्रत्ययश्च, गणभृद्देशनागुणाः ।। ६७८ ॥ तस्मिन् गणधरे धर्मदेशनाविरते सति । प्रणम्य स्वामिनं सर्वे, स्थानं निजनिजं ययुः ।। ६७९ ।। १ शालिभिः । २ निर्मलः । तुष भाषायाम् ‘फोतरु', तेन रहितः ।
।। १७९॥