________________
त्रिषष्टिशलाकापुरुषचरिते
।। १७८ ।।
विसृष्टा भरतेशेन, ब्राह्म्यपि व्रतमग्रहीत् । गुरूपदेशः साक्ष्येव, प्रायेण लघुकर्मणाम् ।। ६५० । विमुक्ता बाहुबलिना, जिघृक्षुः सुन्दरी व्रतम् । भरतेन निषिद्धा तु, श्राविका प्रथमाऽभवत् ।। ६५१ ।। भरतः स्वामिपादान्ते श्रावकत्वमशिश्रियत् । न हि भोगफले कर्मण्यभुक्ते भवति व्रतम् ।। ६५२ ।। नरतिर्यक्सुरेष्वेके, तदानीं जगृहुर्व्रतम् । श्रावकव्रतमन्ये तु सम्यक्त्वमपरे पुनः ।। ६५३ ।। ते च कच्छमहाकच्छवर्जं राजन्यतापसाः । आगत्य स्वामिनः पार्श्वे, दीक्षामाददिरे मुदा ।। ६५४ ॥ साधवः पुण्डरीकाद्याः, साध्व्यो ब्राह्मीपुरस्कृताः । श्रापका भरताद्यास्तु श्राविकाः सुन्दरीमुखाः ।। ६५५ ।। चतुर्विधस्य सङ्घस्य, व्यवस्थेयं तदाऽभवत् । अद्यापि वर्त्तते सेयं, धर्मस्य परमं गृहम् ।। ६५६ ।। तदानीं चतुरशीतेर्गणभृन्नामकर्मणाम् । व्रतिनामृषमसेनप्रभृतीनां सुमेधसाम् ।। ६५७ ।। उत्पादो विगमो धौव्यमिति पुण्यां पदत्रयीम् । उद्दिदेश जगन्नाथः, सर्ववाङ्मयमातृकाम् ।। ६५८ ॥ सचतुर्दशपूर्वाणि, द्वादशाङ्गानि ते क्रमात् । ततो विरचयामासुस्तत्त्रिपद्यनुसारतः ।। ६५९ ॥ अथाऽऽदाय दिव्यचूर्णपूर्णं स्थालं पुरन्दरः । देवैर्वृतो देवदेवपादान्तं समुपास्थित ।। ६६० ।। अथोत्थाय गणभृतां, चूर्णक्षेपं यथाक्रमम् । कुर्वाणः सूत्रेणाऽर्थेन, तथा तदुभयेन च ।। ६६१ ।। द्रव्यैर्गुणैः पर्यायैश्च, नयैरपि जगत्पतिः । ददावनुयोगानुज्ञां गणानुज्ञामपि स्वयम् ।। ६६२ ।। ततोऽमरा नरा नार्यो, दुन्दुभिध्वानपूर्वकम् । वासक्षेपं विदधिरे, तेषामुपरि सर्वतः ।। ६६३ ।। तस्थुर्गणधरास्तेऽपि, रचिताञ्जलिसम्पुटाः । स्वामिवाचं प्रतीच्छन्तो, मेघाम्भ इव पादपाः ।। ६६४ ॥
प्रथमं पर्व
तृतीयः
सर्गः
श्रीऋषभ
स्वामि
चरितम् ।
चतुर्विधसङ्घ
स्य गणधराणा
च स्थापनम् ।
।। १७८ ।।