________________
त्रिषष्टिशलाकापुरुषचरिते
प्रथम पर्व तृतीयः सर्गः श्रीऋषभस्वामिचरितम् ।
॥१७७॥
शरीराद्यर्थदण्डस्य, प्रतिपक्षतया स्थितः । योऽनर्थदण्डस्तत्त्यागस्तृतीयं तु गुणवतम् ॥ ६३५ ॥ त्यक्तातरौद्रध्यानस्य, त्यक्तसावद्यकर्मणः । मुहूर्त समता या तां, विदुः सामायिकव्रतम् ॥ ६३६ ।। दिग्व्रते परिमाणं यत्, तस्य सङ्खपणं पुनः । दिने रात्रौ च देशावकाशिकव्रतमुच्यते ।। ६३७ ॥ चतुष्पा चतुर्थादि, कुव्यापारनिषेधनम् । ब्रह्मचर्यक्रिया स्नानादित्यागः पौषधव्रतम् ।। ६३८ ।। दानं चतुर्विधाहारपात्राच्छादनसद्मनाम् । अतिथिभ्योऽतिथिसंविभागव्रतमुदीरितम् ।। ६३९ ।। रत्नत्रयमिदं सम्यग, यतिभिः श्रावकैरपि । उपासनीयं सततं, निर्वाणप्राप्तिहेतवे ।। ६४०॥ आकर्ण्य देशनामेवमुत्थाय भरतात्मजः । ऋषभस्वामिनं नत्वार्षभसेनो व्यजिज्ञपत् ।। ६४१ ।। स्वामिन्निह भवारण्ये, कषायदवदारुणे । नव्याम्बुद इवाऽवर्षस्तत्त्वामृतमनुत्तरम् ।। ६४२ ।। तरण्ड इव मज्जद्भिः, प्रपेव च पिपासितैः । कृशानुरिव शीतात्तस्तापातरिव पादपः ॥ ६४३ ॥ ध्वान्तमग्नैर्दीप इव, निधिःस्थ्यस्थितैरिव । विषार्दितैरिव सुधा, रोगितैरिव भेषजम् ।। ६४४ ॥ विक्रान्तद्विषदाक्रान्तैरिव दुर्ग जगत्पते! भवभीतरसि प्राप्तो, रक्ष रक्ष दयानिधे! ।।६४५ ॥॥ त्रिभिर्विशेषकम्॥ पितृभिभ्रातृभिर्धातुपुत्रैरन्यैश्च बन्धुभिः । अनाप्तैरिव पर्याप्त, भवभ्रमणहेतुभिः ।। ६४६ ।। जगच्छरण्य ! शरणं, संसारार्णवतारण! । त्वामेवाऽऽश्रितवानस्मि, दीक्षां देहि प्रसीद मे ।। ६४७ ।। ।। युग्मम्।। उक्त्वेति भरतस्याऽन्यैरेकोनैः पञ्चभिः शतैः । पुत्राणां प्राव्रजत् पौत्रसप्तशत्या च सोऽन्वितः ॥६४८ ॥ भर्तुः केवलमहिमां, क्रियमाणां सुरासुरैः । दृष्ट्वा मरीचिर्भरततनयो व्रतमग्रहीत् ।। ६४९ ।।
ऋषभसेना दीनां दीक्षा
॥ १७७॥