________________
त्रिषष्टि
शलाका
पुरुषचरि
।। १७६ ।।
प्रियं पथ्यं वचस्तथ्यं, सूनृतव्रतमुच्यते । तत् तथ्यमपि नो तथ्यमप्रियं चाऽहितं च यत् ।। ६२० । अनादानमदत्तस्याऽस्तेयव्रतमुदीरितम् । बाह्याः प्राणा नृणामर्थो, हरता तं हता हि ते ।। ६२१ ।। दिव्यौदारिककामानां कृताऽनुमतकारितैः । मनोवाक्कायतस्त्यागो, ब्रह्माऽष्टादशधोदितम् ।। ६२२ ॥ सर्वभावेषु मूर्च्छयास्त्यागः स्यादपरिग्रहः । यदसत्स्वपि जायेत, मूर्च्छया चित्तविप्लवः ।। ६२३ ।। सर्वात्मना यतीन्द्राणामेतच्चारित्रमीरितम् । यतिधर्मानुरक्तानां, देशतः स्यादगारिणाम् ।। ६२४ ॥ सम्यक्त्वमूलानि पञ्चाऽणुव्रतानि गुणास्त्रयः । शिक्षापदानि चत्वारि, व्रतानि गृहमेधिनाम् ।। ६२५ ।। पहुकुष्ठिकुणित्वादि, दृष्ट्वा हिंसाफलं सुधीः । निरागस्त्रसजन्तूनां हिंसां सङ्कल्पतस्त्यजेत् ।। ६२६ ॥ मन्मनत्वं काहलत्वं, मूकत्वं मुखरोगिताम् । वीक्ष्याऽसत्यफलं कन्यालीकाद्यसत्यमुत्सृजेत् ॥ ६२७ ।। कन्यागोभूम्यलीकानि, न्यासापहरणं तथा । कूटसाक्ष्यं च पञ्चेति, स्थूलासत्यानि सन्त्यजेत् ।। ६२८ ।। दौर्भाग्यं प्रेष्यतां दास्यमङ्गच्छेदं दरिद्रताम् । अदत्तात्तफलं ज्ञात्वा, स्थूलस्तेयं विवर्जयेत् ॥ ६२९ ॥ षण्ढत्वमिन्द्रियच्छेदं, वीक्ष्याऽब्रह्मफलं सुधीः । भवेत् स्वदारसन्तुष्टयेऽन्यदारान् वा विवर्जयेत् ॥ ६३० ॥ असन्तोषमविश्वासमारम्भं दुःखकारणम् । मत्वा मूर्च्छाफलं कुर्यात्, परिग्रहनियन्त्रणम् ।। ६३१ ।। दशस्वपि कृता दिक्षु, यत्र सीमा न लङ्घयते । ख्यातं दिग्विरतिरिति प्रथमं तद् गुणव्रतम् ॥ ६३२ ।। भोगोपभोगयोः सङ्ख्या, शक्त्या यत्र विधीयते । भोगोपभोगमानं तद्, द्वैतीयीकं गुणव्रतम् ।। ६३३ ।। आ रौद्रमपध्यानं, पापकर्मोपदेशिता । हिंसोपकारिदानं च प्रमादाचरणं तथा ।। ६३४ ।।
T
१ अर्थम् । २ ब्रह्मचर्यम् । ३ मोहस्य । ४ गृहस्थानम् ।
प्रथमं पर्व तृतीयः
सर्गः
श्रीऋषभ
स्वामि
चरितम् ।
देशविरतिः ।
।। १७६ ।।