SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ GST प्रथमं पर्व त्रिषष्टिशलाकापुरुषचरिते तृतीयः सर्गः श्रीऋषभस्वामिचरितम् । ।। १७५ ।। सम्यग्दर्शनमेतच्च, गुणतस्त्रिविधं भवेत् । रोचकं दीपकं चैव, कारकं चेति नामतः ।। ६०५ ।। तत्र श्रुतोक्ततत्त्वेषु हेतूदाहरणैर्विना । दृढा या प्रत्ययोत्पत्तिस्तद् रोचकमुदीरितम् ।। ६०६ ।। दीपकं तद् यदन्येषामपि सम्यक्त्वदीपकम् । कारकं संयमतपःप्रभृतीनां तु कारकम् ।। ६०७ ।। शम-संवेग-निर्वेदा-ऽनुकम्पा-5ऽस्तिक्यलक्षणैः । लक्षणैः पञ्चभिः सम्यक्, सम्यक्त्वं तत् तु लक्ष्यते ।। ६०८ ।। अनन्तानुबन्धिकषायाणामनुदयः शमः । स प्रकृत्या कषायाणां, विपाकेक्षणतोऽपि वा ।। ६०९ ।। ध्यायतः कर्मविपाकं, संसारासारतामपि । यत् स्याद् विषयवैराग्यं, स संवेग इतीरितः ।। ६१० ।। संसारवासः कारैव, बन्धनान्येव बन्धवः । ससंवेगस्य चिन्तेयं, या निर्वेदः स उच्यते ।। ६११ ॥ एकेन्द्रियप्रभृतीना, सर्वेषामपि देहिनाम् । भवाब्धौ मज्जतां क्लेशं, पश्यतो हृदयार्द्रता ।। ६१२ ।। तद्दुःखैर्दुःखितत्वं च, तत्प्रतीकारहेतुषु । यथाशक्ति प्रवृत्तिश्चेत्यनुकम्पाऽभिधीयते ॥६१३ ।। ।। युग्मम्।। तत्त्वान्तराकर्णनेऽपि, या तत्त्वेष्वाहतेषु तु । प्रतिपत्तिनिराकाङ्क्षा, तदास्तिक्यमुदीरितम् ।। ६१४ ।। सम्यग्दर्शनमित्युक्तं, प्राप्तावस्य क्षणादपि । मत्यज्ञानं पुराऽभूद् यत्, तन्मतिज्ञानतां व्रजेत् ।। ६१५ ॥ जन्मिनो यच्छुताऽज्ञानं, तच्छुतज्ञानतां भजेत् । विभङ्गज्ञानमवधिज्ञानभावं च गच्छति ।। ६१६ ।। सर्वसावधयोगाना, त्यागश्चारित्रमिष्यते । कीर्त्तितं तदहिंसादिव्रतभेदेन पञ्चधा ।। ६१७ ॥ अहिंसा-सूनृता-ऽस्तेय-ब्रह्मचर्या-ऽपरिग्रहाः । पञ्चभिः पञ्चभिर्युक्ता भावनाभिर्विमुक्तये ।। ६१८ ।। न यत् प्रमादयोगेन, जीवितव्यपरोपणम् । त्रसानां स्थावराणां च, तदहिंसाव्रतं मतम् ।। ६१९ ।। १ प्राणापहरणम् । सम्यक्तवस्य लक्षणानि । सम्यक्चारित्रम् । सर्वविरतिः । || १७५॥
SR No.009654
Book TitleTrishashti Shakala Purush Charitam Part 1
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages399
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy