________________
त्रिषष्टिशलाकापुरुषचरिते
प्रथम पर्व तृतीयः सर्गः श्रीऋषभस्वामि
।। १७४ ।।
चरितम् ।
तीराभ्यर्णान्महापोता, इव वातसमाहताः । रागादिप्रेरिताः केऽपि, व्यावर्त्तन्ते ततः पुनः ॥ ५८९ ।। तत्रैव तत्परीणामविशेषादासतेऽपरे । स्थलस्खलितगमनान्यम्भांसि सरितामिव ।। ५९० ॥ अपरे ये पुनर्भव्या, भाविभद्राः शरीरिणः । आविष्कृत्य परं वीर्यमपूर्वकरणेन ते ।। ५९१ ।। अतिक्रामन्ति सहसा, तं ग्रन्थि दुरतिक्रमम् । अतिक्रान्तमहाध्वानो, घट्टभूमिमिवाऽध्वगाः ॥ ५९२ ॥ अथाऽनिवृत्तिकरणादन्तरकरणे कृते । मिथ्यात्वं विरलीकृत्य, चतुर्गतिकजन्तवः ॥ ५९३ ॥ आन्तर्मुहूर्तिकं सम्यग्दर्शनं प्राप्नुवन्ति यत् । निसर्गहतुकमिदं, सम्यक् श्रद्धानमुच्यते ।। ५९४॥ ।युग्मम्।। गुरूपदेशमालम्ब्य, भव्यानामिह देहिनाम् । सम्यक् श्रद्धानं तु यत् तद्, भवेदधिगमोद्भवम् ॥ ५९५ ॥ तच्च स्यादौपशमिक, सास्वादनमथाऽपरम् । क्षायोपशमिकं वेद्यं, क्षायिकं चेति पञ्चधा ।। ५९६ ।। तत्रौपशमिकं भिन्नकर्मग्रन्थेः शरीरिणः । सम्यक्त्वलाभे प्रथमेऽन्तर्मुहूर्त प्रजायते ।। ५९७ ॥ तथोपशान्तमोहस्योपशमश्रेणियोगतः । मोहोपशमजमौपशमिकं तु द्वितीयकम् ।। ५९८ ॥ त्यक्तसम्यक्त्वभावस्य, मिथ्यात्वाभिमुखस्य च । तथाऽभ्युदीर्णानन्तानुबन्धिकस्य शरीरिणः ॥ ५९९ ॥ यः सम्यक्त्वपरीणाम, उत्कर्षेण षडावलिः । जघन्येनैकसमयस्तत् सास्वादनमीरितम् ।। ६०० ॥ अथ तृतीयं मिथ्यात्वमोहक्षयशमोद्भवम् । सम्यक्त्वपुद्गलोदयपरिणामवतो भवेत् ।। ६०१ ॥ वेदकं नाम सम्यक्त्वं, क्षपकश्रेणिमीयुषः । अनन्तानुबन्धिनां तु, क्षये जाते शरीरिणः ॥६०२ ॥ मिथ्यात्वस्याऽथ मिश्रस्य, सम्यग् जाते परिक्षये । क्षायिकसम्मुखीनस्य, सम्यक्त्वाऽन्त्यांशभोगिनः ॥६०३ ।। शुभभावस्य प्रक्षीणसप्तकस्य शरीरिणः । सम्यक्त्वं क्षायिकं नाम, पञ्चमं जायते पुनः ॥६०४ ॥
सम्यक्त्वस्य औपशमिका दयः रोचका दयश्च भेदास्तस्वरुपं च।
|| १७४||