________________
त्रिषष्टि
शलाका
पुरुषचरिते
।। १७३ ।।
किन्तु तत्र महानन्दं, सुखमद्वैतमव्ययम् । रुपं च शाश्वतं ज्योतिः, केवलालोकभास्करम् ।। ५७३ ॥ स च सम्प्राप्यते मोक्षः, शीलयद्भिर्निरन्तरम् । ज्ञानदर्शनचारित्ररत्नत्रितयमुज्ज्वलम् ॥ ५७४ ।। तत्र जीवादितत्त्वानां, सङ्क्षेपाद् विस्तरादपि । यथावदवबोधो यः, सम्यग्ज्ञानं तदुच्यते ।। ५७५ ।। मतिश्रुताऽवधिमनः पर्यायैः केवलेन च । अमीभिः सान्वयैर्भेदैस्तत् तु पञ्चविधं मतम् ।। ५७६ ॥ अवग्रहादिभिर्भिन्नं, बह्वाद्यैरितरैरपि । इन्द्रियाऽनिन्द्रियभवं, मतिज्ञानमुदीरितम् ।। ५७७ ।। विस्तृतं बहुधा पूर्वैरङ्गोपाङ्गैः प्रकीर्णकैः । स्याच्छब्दलाञ्छितं ज्ञेयं श्रुतज्ञानमनेकधा ।। ५७८ ।। देवनैरयिकाणां स्यादवधिर्भवसम्भवः । षड्विकल्पस्तु शेषाणां, क्षयोपशमलक्षणः ।। ५७९ ।। ऋजुर्विपुल इत्येवं स्यान्मनः पर्ययो द्विधा । विशुद्ध्यप्रतिपाताभ्यां तद्विशेषोऽवगम्यताम् ॥ ५८० ॥ अशेषद्रव्यपर्यायविषयं विश्वलोचनम् । अनन्तमेकमत्यक्षं, केवलज्ञानमुच्यते ।। ५८१ ।। रुचिः श्रुतोक्ततत्त्वेषु, सम्यक् श्रद्धानमुच्यते । जायते तन्निसर्गेण गुरोरधिगमेन वा ।। ५८२ ।। तथाह्यनाद्यन्तभवावर्त्तवर्तिषु देहिषु । ज्ञानदृष्ट्यावृतिवेद्यान्तरायाभिधकर्मणाम् ।। ५८३ ।। सागरोपमकोटीनां, कोट्यस्त्रिंशत् परा स्थितिः । विंशतिर्गोत्रनाम्नोश्च मोहनीयस्य सप्ततिः ।। ५८४ ।। ततो गिरिसरिद्ग्रावघोलनान्यायतः स्वयम् । क्षीयन्ते सर्वकर्माणि फलानुभवतः क्रमात् ॥ ५८५ ॥ एकोनत्रिंशदेकोनविंशत्येकोनसप्ततीः । सागराणां कोटिकोटीः, स्थितिमुन्मूल्य कर्मणाम् ॥ ५८६ ।। देशोनैकावशिष्टयब्धिकोटिकोयै तु जन्मिनः । यथाप्रवृत्तिकरणाद्, ग्रन्थिदेशं समियति ॥ ५८७ ॥ ॥ युग्मम् ॥ रागद्वेषपरीणामो, दुर्भेदो ग्रन्थिरुच्यते । दुरुच्छेदो दृढतरः काष्ठादेरिव सर्वदा ।। ५८८ ॥
प्रथमं पर्व
तृतीयः
सर्गः
श्रीऋषभस्वामि
चरितम् ।
सम्यग्दर्शनं
तप्रासि
कमश्च ।
॥ १७३ ॥