________________
त्रिषष्टिशलाकापुरुषचरिते
प्रथमं पर्व तृतीयः सर्गः श्रीऋषभस्वामिचरितम् ।
॥ १७२ ।।
पदार्थानामशेषाणां, संसारोदरवर्तिनाम् । संयोगा विप्रयोगान्ताः, पतनान्ता इवोच्छ्रयाः ।। ५५८ ।। आयुर्धनं यौवनं च, स्पर्द्धयेव परस्परम् । सत्वरं गत्वाराण्येव, संसारेऽस्मिन् शरीरिणाम् ।। ५५९ ।। संसारस्याऽस्य गतिषु, चतसृष्वपि जातुचित् । नाऽस्त्येव सुखलेशोऽपि, स्वादु नीरं मराविव ॥ ५६० ।। तथाहि क्षेत्रदोषेण, परमाधार्मिकैरपि । मिथश्चाऽऽक्लिश्यमानानां, नारकाणां कुतः सुखम् ? ॥५६१ ॥ शीतवातातपाम्भोभिर्वधबन्धक्षुदादिभिः । विविधं बाध्यमानाना, तिरश्चामपि किं सुखम् ? ॥ ५६२ ।। गर्भवासजनिव्याधिजरादारिद्रयमृत्युजैः । क्रोडीकूतानामसुखैर्मनुष्याणां कुतः सुखम् ? ।। ५६३ ॥ अन्योऽन्यमत्सरामर्षकलहच्यवनाऽसुखैः । सुखलेशोऽपि नैवाऽस्ति, कदाचिद् धुसदामपि ॥ ५६४ ॥ अज्ञानाज्जन्मिनो भूयो, भूयः संसारसम्मुखम् । तथापि परिसर्पन्ति, नीचाभिमुखमम्बुवत् ॥ ५६५ ॥ तद् भव्याश्चेतनावन्तो, निजेनाऽनेन जन्मना । मा पोषयत संसारं, दुग्धेनेव भुजङ्गमम् ।। ५६६ ।। संसारवासजं दुःखं, विचार्य तदनेकधा । सर्वात्मनाऽपि मोक्षाय, यतध्वं हे विवेकिनः ! ॥५६७ ॥ गर्भवासभवं दुःखं, नरकाऽसुखसन्निभम् । संसारवन्न मोक्षेऽस्ति, जीवानां हन्त ! जातुचित् ।। ५६८ ।। घटीमध्याकृष्यमाणनारकार्तिसहोदरा । नेह प्रसवजन्माऽपि, जायते जातु वेदना ।। ५६९ ।। बहिरन्तःपरिक्षिप्तशल्यतुल्या भवन्ति च । नाऽऽधयो व्याधयो नाऽपि, तत्र बाधानिबन्धनम् ।। ५७० ।। अग्रदूती कृतान्तस्य, तेजःसर्वस्वतस्करी । पराधीनत्वजननी, न जरा तत्र सर्वथा ।। ५७१ ॥ सआयते नारकिकतिर्यग्नृासदामिव । न तत्र मरणं भूयो, भवभ्रमणकारणम् ॥ ५७२ ।। १ जन्तोः । २ अङ्कस्थापितानाम् ।
ऋषभप्रमोदेशना। मोक्षस्वरूपम् ।
|| १७२॥