________________
त्रिषष्टिशलाकापुरुषचरिते
प्रथमं पर्व तृतीयः सर्गः श्रीऋषभस्वामिचरितम् ।
॥ १७१ ॥
त्वत्पर्षद्ययमायातः, करटी करटस्थलीम् । करेण केसरिकर, कृष्ट्वा कण्डूयते मुहुः ॥५४४ ।। इतश्च महिषमिव, महिषोऽयं मुहर्मुहुः, । स्नेहतो जिह्वया मार्टि, हेषमणिमिमं हयम् ।। ५४५ ।। लीलालोलितलाल, उत्कर्णोन्नमिताननः । घ्राणेन व्याघ्रवदनं, जिघ्रत्ययमितो मृगः ।। ५४६ ।। पार्श्वयोरवतः पश्चाललन्तं निजपोतवत् । अयं तरुणमार्जारः, समाश्लिष्यति मूषकम् ।। ५४७ ॥ अयं च निर्भयो भोगं, कुण्डलीकृत्य कुण्डली । अदभ्रबभ्रोरभ्यर्णे, निषीदति वयस्यवत् ॥५४८ ॥ देव ! ये केचिदन्येऽपि, जीवाः शाश्वतवैरिणः । निर्वैरास्तेऽत्र तिष्ठन्ति, त्वत्प्रभावोऽसमो ह्ययम् ।। ५४९ ॥ इति स्तुत्वा जगन्नाथमपक्रम्याऽऽश्रितक्रमः । निषसाद महीनाथो, धुसन्नाथस्य पृष्ठतः ।। ५५०॥ क्षेत्रे योजनमात्रेऽपि, सत्त्वानां कोटिकोटयः । ममुस्तस्मिन् निराबाधं, तीर्थनाथप्रभावतः ।। ५५१ ।। प्रभुर्योजनगामिन्या, सर्वभाषास्पृशा गिरा । पञ्चत्रिंशदतिशयजुषेमा देशनां व्यधात् ।। ५५२ ॥
आधिव्याधिजरामृत्युज्वालाशतसमाकुलः । प्रदीप्तागारकल्पोऽयं, संसारः सर्वदेहिनाम् ॥ ५५३ ।। न युज्यते तद् विदुषः, प्रमादोऽत्र मनागपि । कः प्रमाद्यति बालोऽपि, निशोल्लद्ध्ये मरुस्थले ? ॥ ५५४ ।। संसाराब्धाविहाऽनेकयोन्यावर्ताकुले जनैः । दुर्लभं मानुषं जन्म, महारत्नमिवोत्तमम् ॥ ५५५ ॥ परलोकसाधनेन, मानुष्यमपि देहिनाम् । पादपो दोहदेनेव, सफलीभवति ध्रुवम् ॥५५६ ॥ आपातमात्रमधुराः, परिणामेऽतिदारुणाः । शठवाच इवाऽत्यन्तं, विषया विश्ववञ्चकाः ।। ५५७ ॥ १ गजः । २ शब्दं कुर्वाणम् । ३ सर्पः । ४ महानकुलस्य ।
ऋषभप्रभोदेशना ।
संसारस्वरुपमा
|| १७१॥