________________
त्रिषष्टिशलाकापुरुषचरिते
प्रथमं पर्व तृतीयः सर्गः श्रीऋषभस्वामिचरितम् ।
॥ १७०।।
साऽऽरुह्य क्षपकश्रेणिमपूर्वकरणक्रमात् । क्षीणाष्टकर्मा युगपत्, केवलज्ञानमासदत् ।। ५२९ ।। करिस्कन्धाधिरुदैव, स्वामिनी मरुदेव्यथ । अन्तकृत्केवलित्वेन, प्रपेदे पदमव्ययम् ।। ५३० ॥ एतस्यामवसर्पिण्यां, सिद्धोऽसौ प्रथमस्ततः । सत्कृत्य तद्वपुः क्षीरनीरधौ निदधेऽमरैः ।। ५३१ ॥ तदादि च प्रववृते, लोके मृतकपूजनम् । यत् कुर्वन्ति महान्तो हि, तदाचाराय कल्पते ।। ५३२ ।। ततो विज्ञाततन्मोक्षो, हर्ष-शुग्भ्यां समं नृपः । अभ्रच्छायाऽर्कतापाभ्यां, शरत्काल इवाऽऽनशे ।। ५३३ ।। सन्त्यज्य राज्यचिह्नानि, पदातिः सपरिच्छदः । उदग्द्वारेण समवसरणं प्रविवेश सः ।। ५३४ ॥ चतुर्भिर्देवनिकायैः, स्वामी परिवृतस्तदा । ददृशे भरतेशेन, दृक्वकोरनिशाकरः ।। ५३५ ॥ त्रिश्च प्रदक्षिणीकृत्य, भगवन्तं प्रणम्य च । मूर्ध्नि बद्धाञ्जलिः स्तोतुमिति चक्री प्रचक्रमे ।। ५३६ ॥ जयाऽखिलजगन्नाथ !, जय विश्वाभयप्रद ! । जय प्रथमतीर्थेश!, जय संसारतारण ! ॥ ५३७ ॥ अद्याऽवसर्पिणीलोकपद्माकरदिवाकर! । त्वयि दृष्टे प्रभातं मे, प्रनष्टतमसोऽभवत् ।। ५३८ ।। तेषां दूरे न लोकाग्रं, कारुण्यक्षीरसागर! । समारोहन्ति ये नाथ!, त्वच्छासनमहारथम् ।। ५३९ ।। लोकाग्रतोऽपि संसारमग्रिमं देव ! मन्महे । निष्कारणजगबन्धुर्यत्र साक्षात् त्वमीक्ष्यसे ।। ५४० ॥ त्वद्दर्शनमहानन्दस्यन्दनिष्यन्दलोचनैः । स्वामिन् ! मोक्षसुखास्वादः, संसारेऽप्यनुभूयते ।। ५४१ ॥ रागद्वेषकषायाद्यै, रुद्धं जगदरातिभिः । इदमुद्वेष्ट्यते नाथ!, त्वयैवाऽभयसत्रिणा ।। ५४२ ।। नानावस्कन्दसङ्ग्रामहतग्रामभुवो मिथः । मित्रीभूयेह तिष्ठन्ति, राजानस्तव पर्षदि ।। ५४३ ।।
मरुदेव्याः मोक्षः भरतकृतः प्रमुस्तुतिश्च।
॥ १७०॥