________________
त्रिषष्टिशलाका
पुरुषचरित
।। १६९ ।।
उत्पन्नकेवलस्तात, इतश्चक्रमितोऽभवत् । आदौ करोमि कस्याऽर्चामिति दध्यौ क्षणं नृपः ।। ५१४ ।। क्व विश्वाभयदस्तातः ?, क्व चक्रं प्राणिघातकम् ? । विमृश्येति स्वामिपूजाहेतोः स्वानादिदेश सः ।। ५१५ ।। यथोचितमथो दत्त्वा, पुष्कलं पारितोषिकम् । विससर्ज नरेन्द्रस्तौ, मरुदेवामुवाच च ।। ५१६ ॥ देवि ! त्वं सर्वदाऽपीदमादिक्षः करुणाक्षरम् । भिक्षाहारो यदेकाकी, वत्सो मे दुःखभाजनम् ।। ५१७ ।। त्रैलोक्यस्वामिताभाजः, स्वसूनोस्तस्य सम्प्रति । पश्य सम्पदमित्युक्त्वाऽऽ रोहयामास तां गजे ।। ५१८ ।। सुवर्णवज्रमाणिक्यभूषणैस्तुरगैर्गजैः । पत्तिभिः स्यन्दनैर्मूर्त्तश्रीमयैः सोऽचलत् ततः ।। ५१९ ॥ सैन्यैर्भूषणभाःपुञ्जकृतजगमतोरणैः । गच्छन् दूरादपि नृपोऽपश्यद् रत्नध्वजं पुरः ।। ५२० ।। मरुदेवामथाऽवादीद्, भरतः परतो ह्यदः । प्रभोः समवसरणं, देवि ! देवैर्विनिर्मितम् ॥ ५२१ ।। अयं जयजयारावतुमुलस्त्रिदिवौकसाम् । श्रूयते तातपादाब्जसेवोत्सवमुपेयुषाम् ।। ५२२ ।। गम्भीरमधुरं मातर्दिव्ययं दुन्दुभिर्नदन् । तनोति हृदयानन्दं, वैतालिक इव प्रभोः ।। ५२३ ।। स्वामिपादाब्जवन्दारुवृन्दारकविमानभूः । अनणुः किङ्किणीनादः, श्रवैणातिथिरेष नः ।। ५२४ ।। स्वामिदर्शनहृष्टानां, क्ष्वेडानादो दिवौकसाम् । स्तनितं स्तनयित्नूनामिवैष श्रूयते दिवि ।। ५२५ ।। गन्धर्वाणामियं गीतिर्ग्रामरागपवित्रिता । स्वामिवाचो भुजिष्येव, पुष्यत्यानन्दमद्य नः ।। ५२६ ॥ शृण्वत्यास्तत् ततो देव्या, मरुदेव्या व्यलीयत । आनन्दाश्रुपयः पूरैः, पङ्कचन्नीलिका दृशोः ।। ५२७ ।। साऽपश्यत् तीर्थकृल्लक्ष्मीं, सूनोरतिशयान्विताम् । तस्यास्तद्दर्शनानन्दात्, तन्मयत्वमजायत ।। ५२८ ।। १ मूर्तिमल्लक्ष्मीमयैः । २ महान् । ३ कर्णगोचरः । ४ सिंहनादः ।
प्रथमं पर्व
तृतीयः सर्गः
श्रीऋषभस्वामिचरितम् ।
मरुदेवया सह
भरतस्य प्रभुवन्दनार्थ
मागमनम् ।
॥ १६९ ॥