________________
त्रिषष्टिशलाकापुरुषचारते
प्रथमं पर्व तृतीयः सर्गः श्रीऋषभस्वामिचरितम् ।
॥ १६८ ॥
अहो ! कष्टमहो ! कष्टं, यन्मे सूनुस्तपात्यये । पद्मखण्ड इव मृदुः, सहते वारिविद्रवम् ।। ४९९ ।। हिमतौ हिमसम्पातसंक्लेशविवशां दशाम् । अरण्ये मालतीस्तम्ब, इव याति निरन्तरम् ।। ५०० ॥ उष्णद्वुष्णकिरणकिरणैरतिदारुणैः । सन्तापं चाऽनुभवति, स्तम्बेरम इवाऽधिकम् ।। ५०१ ।। तदेवं सर्वकालेषु, वनेवासो निराश्रयः । पृथग्जन इवैकाकी, वत्सा मे दुःखभाजनम् ।। ५०२ ।। तत्तद्दुःखाकुलं वत्स, पश्यन्त्यग्रे दृशोरिव । वदन्ती नित्यमप्येवं, हा ! त्वामपि दुनोम्यहम् ।। ५०३ ।। इति दुःखाकुलां देवीं, मरुदेवीमुदञ्जलिः । वाचाऽवोचन्नवसुधासध्रीच्या वसुधाधवः ।। ५०४ ।। स्थैर्याद्रेर्वज्रसारस्य, महासत्त्वशिरोमणेः । तातस्य जननी भूत्वा, किमेवं देवि ! ताम्यसि ? ।। ५०५ ॥ तातस्तरीतुं सहसा, संसाराम्भोधिमुद्यतः । कण्ठबद्धशिलाप्रायान्, स्थाने तत्याज नः प्रभुः ।। ५०६ ।। वने विहरतो भर्तुः, प्रभावाच्छ्रापदा अपि । नोपद्रवं कर्तुमलं, पाषाणघटिता इव ।। ५०७ ।। क्षुत्पिपासातपप्राया, दुःसहा ये परीषहाः । सहायाः खलु तातस्य, ते कर्मद्वेषिसूदने ।। ५०८ ।। न चेत् प्रत्येषि मद्वाचा, प्रत्येष्यसि तथाऽपि हि । तातस्य न चिराज्जातकेवलोत्सववार्त्तया ।। ५०९ ।। अत्रान्तरे महीभर्तु पितौ वेत्रपाणिना । नाम्ना यमक शमकौ, पुरुषावभ्युपेयतुः ।। ५१० ॥ प्रणम्य यमकस्तत्र, भरतेशं व्यजिज्ञपत् । दिष्ट्याऽद्य वर्धसे देवाऽनया कल्याणवार्त्तया ।। ५११ ।। पुरे पुरिमतालाख्ये, कानने शकटानने । युगादिनाथपादानामुदपद्यत केवलम् ।। ५१२ ।। प्रणम्य शमकोऽप्युच्चैःस्वरमेवं व्यजिज्ञपत् । इदानीमायुधागारे, चक्ररत्नमजायत ।। ५१३ ।। १ जलोपद्रवम् । २ ग्रीष्मौ । ३ अस्मान् ।
भरतं प्रति प्रभुज्ञानोत्प त्तेश्चक्ररलो त्पत्तेश्च युगपनिवेदनम् ।
|| १६८॥