________________
त्रिषष्टि शलाका पुरुषचरिते
प्रथमं पर्व तृतीयः सर्गः श्रीऋषभस्वामिचरितम् ।
।। १६७ ।।
यस्त्वां स्तवीति यो द्वेष्टि, समस्त्वमुभयोस्तयोः । शुभाऽशुभं फलं किन्तु, भिन्नं चित्रीयते हि नः ।। ४८४ ॥ धुश्रियाऽपि न तोषो मे, नाथ ! नाथाम्यदस्ततः । भगवन् ! भूयसी भूयात्, त्वयि भक्तिर्ममाऽक्षया ।। ४८५ ।। इत्यभिष्टुत्य नत्वा च, निषसाद कृताञ्जलिः । नारीनरनरदेवदेवानामग्रतो हरिः ।। ४८६ ॥ इतोऽपि च विनीतायां, विनीतो भरतेश्वरः । आजगाम नमस्कर्तुं, मरुदेवां दिवामुखे ।। ४८७ ।। तनूजविरहोद्भूतैरश्रान्तैरसवारिभिः । जातनीलिकया लुप्तलोचनाब्जां पितामहीम् ।। ४८८ ।। ज्येष्ठः पौत्रो नमत्येष, देवि ! त्वत्पादपङ्कजे । स्वयं विज्ञपयन्नेव, भरतः प्रणनाम ताम् ।। ४८९ ।। । युग्मम्। स्वामिनी मरुदेवाऽपि, भरतायाऽऽशिषं ददौ । हृद्यमान्तीं शुचमिव, गिरमित्युज्जगार च ।। ४९० ॥ मां त्वां महीं प्रजां लक्ष्मी, विहाय तृणवत् तदा । एकाकी गतवान् वत्सो, दुर्मरा मरुदेव्यहो! ।। ४९१ ।। सूनोश्चन्द्रातपच्छायमातपत्रं क्व मूर्द्धनि ? । सर्वाङ्गसन्तापकरः, क्वेदानीं तपनातपः ? ।। ४९२ ।। सलीलगतिभिर्यानर्यानं हस्त्यादिभिः क्व तत् ? । वत्सस्य पादचारित्वं, क्वेदानीं पथिकोचितम् ? ॥४९३ ।। क्व तद् वारवधूत्क्षिप्तचारुचामरवीजनम् ? । मत्सूनोः क्वाऽधुना दंशमशकाद्यैरुपद्रवः ? ।। ४९४ ।। क्व तद् देवसमानीतदिव्याहारोपजीवनम् ? | क्व भिक्षाभोजनं तस्याऽभोजनं वाऽपि सम्प्रति ? ॥४९५ ।। रत्नसिंहासनोत्सङ्गे, महर्द्धः क्व तदासनम् ? । मत्सूनोः खजिन इव, क्व निरासनताऽधुना ? || ४९६ ।। आरक्षरात्मरक्षैश्च, रक्षिते क्व पुरे स्थितिः ? । सूनोः क्व वासः सिंहाहिदुःश्वापदपदे वने ? || ४९७ ।। क्व तद् दिव्याङ्गनागीतं, कर्णामृतरसयानम् ? । सूनोः क्वोन्मत्तफेरुण्डफेत्काराः कर्णसूचयः ।। ४९८ ।।
मरुदेवाया
विलापः,
तत्सान्त्वनं च ।
|| १६७॥
१ अश्रुजलैः । २ नेत्ररोगविशेषः । ३ गण्डकाख्यपशोः ।