________________
त्रिषष्टिशलाकापुरुषचरिते
प्रथमं पर्व तृतीयः सर्गः श्रीऋषभस्वामिचरितम् ।
॥१६६ ॥
स्थानं विहाय साधूनां, साध्वीनां च तदन्तरे । पूर्वदक्षिणदिश्यूद्धस्तिस्थुर्वैमानिकस्त्रियः ।।४६९।। ।। युग्मम्।। प्रविश्याऽपाच्यद्वारेण, विधिना तेन नैर्ऋते । क्रमेणाऽस्थुवनेशज्योतिष्कव्यन्तरस्त्रियः ॥ ४७० ॥ प्रविश्य प्रत्यग्द्वारात् प्राग, विधिपूर्व मरुद्दिशि । अतिष्ठन् भवनपतिज्योतिष्कव्यन्तराः सुराः ॥ ४७१ ॥ प्रविश्योदीच्यद्वारेण, तेनैव विधिनाक्रमात् । ऐशान्यां कल्पदेवाश्च, नरा नार्योऽवतस्थिरे ॥ ४७२ ॥ तत्राऽऽदावागतोऽल्पर्द्धिरागच्छन्तं महर्द्धिकम् । नमति स्माऽऽगतं तु प्राग, नमन्नेव जगाम च ॥४७३ ॥ नियन्त्रणा तत्र नैव, विकथा न च काचन : । विरोधिनामपि मिथो, न मात्सर्यं भयं न च ।। ४७४ ॥ द्वितीयस्य तु वप्रस्य, तिर्यञ्चस्तस्थुरन्तरे । वाहनानि तृतीयस्य, प्राकारस्य तु मध्यतः ॥ ४७५ ॥ प्रकारस्य तृतीयस्य, बाह्यदेशेऽभवन् पुनः । विशन्तः केऽपि निर्यान्तः, केऽपि तिर्यग्नरामराः ॥४७६ ॥ अथ सौधर्मकल्पेन्द्रो, नमस्कृत्य कृताञ्जलिः । रोमाञ्चितो जगन्नाथमिति स्तोतुं प्रचक्रमे ॥ ४७७ ।। स्वामिन् । क्व धीदरिद्रोऽहं, क्व च त्वं गुणपर्वतः । अभिष्टयेष्ये तथाऽपि त्वां, भक्त्याऽतिमुखरीकृतः ॥४७८ ॥ अनन्तैर्दर्शनज्ञानवीर्यानन्दैर्जगत्पते! । रत्नै रत्नाकर इव, त्वमिहैको विराजसे ॥४७९ ॥ देवेह भरतक्षेत्रे, चिरं नष्टस्य सर्वथा । धर्मस्याऽसि प्ररोहाय, बीजमेकं तरोरिव ।। ४८० ॥ अनुत्तरसुराणां त्वं, तत्रस्थानामिह स्थितः । वेत्सि च्छिनत्सि सन्देहं, न माहात्म्यावधिस्तव ॥४८१ ॥ फलं त्वद्भक्तिलेशस्य, निवासः स्वर्गभूमिषु । यत् सुराणां समग्राणां, महर्द्धिद्युतिभास्वताम् ॥ ४८२ ॥ देव ! त्वद्भक्तिहीनाना, तपांस्यतिमहान्त्यपि । अबोद्धृणामिव ग्रन्थाभ्यासः क्लेशाय केवलम् ॥ ४८३ ॥ १ दक्षिणद्वारेण । २ वायव्यदिशि । ३ उत्तरद्वारेण ।
समवसरणम्।
|| १६६॥