________________
त्रिषष्टिशलाकापुरुषचरिते
।। १६५ ।।
तस्योपरि विचक्रे च तैश्छत्रत्रयमुज्जवलम् । स्वामिनस्त्रिजगत्स्वाम्यचिह्नत्रयमिवोच्चकैः ॥ ४५४ ।। यक्षाभ्यां तत्र दधाते, पार्श्वयोश्चामरौ शुची । हृद्यमान्तौ बहिर्भूतौ, स्वामिभक्तिभराविव ।। ४५५ ॥ ततः समवसरणद्वारे हेमाम्बुजस्थितम् । अत्यद्भुतप्रभाचक्रं धर्मचक्रं विचक्रिरे ।। ४५६ ।। तत्राऽन्यदपि यत् कृत्यं, तत् सर्वं व्यन्तरा व्यधुः । साधारणे हि समवसरणे तेऽधिकारिणः ।। ४५७ ॥ चतुर्विधानां देवानामथ कोटीभिरावृतः । भगवान् समवसतुं प्रचचाल दिवामुखे ।। ४५८ ।। सहस्रपत्राण्यब्जानि, सौवर्णानि तदा नव । विदधुर्निदधुश्चाऽग्रे, क्रमेण स्वामिनः सुराः ।। ४५९ ।। विदधे तेषु च स्वामी, पादन्यासं द्वयोर्द्वयोः । पुरः सञ्चारयामासुराशु शेषाणि नाकिनः ।। ४६० ॥ पूर्वद्वारेण समवसरणं प्राविशत् ततः । चक्रे च चैत्यवृक्षस्य, जगन्नाथः प्रदक्षिणाम् ।। ४६१ ।। तीर्थं नत्वा प्राङ्मुखोऽथ, जगन्मोहतमश्छिदे । स्वामी सिंहासनं भेजे, पूर्वाचलमिवाऽर्यमा ।। ४६२ ॥ रत्नसिंहासनस्थानि, दिक्ष्वन्यास्वपि तत्क्षणम् । भगवत्प्रतिबिम्बानि, व्यन्तरास्त्रीणि चक्रिरे ॥ ४६३ ॥ देवाः प्रभोः सदृग्रुपमङ्गुष्ठस्याऽपि न क्षमाः । कर्तुं तादृशि तान्यासन्, पुनः स्वामिप्रभावतः ।। ४६४ ॥ आविर्बभूवाऽनुशिरस्तदा भामण्डलं विभोः । खद्योतपोतवद् यस्य, पुरो मार्तण्डमण्डलम् ॥। ४६५ ।। प्रतिध्वानैश्चतस्रोऽपि, दिशो मुखरयन् भृशम् । अम्भोद इव गम्भीरो, दिवि दध्वान दुन्दुभिः ।। ४६६ । भगवानेक एवाऽयं, स्वामीत्यूर्ध्वकृतो भुजः । धर्मेणेव प्रभोरग्रे, रेजे रत्नमयध्वजः ॥ ४६७ ॥ प्रविश्य पूर्वद्वारेण, कृत्वा च त्रिः प्रदक्षिणाम् । तीर्थनाथं च तीर्थं च, नत्वा प्राकार आदिमे ।। ४६८ ॥ १ सुवर्णकमलस्थितम् । ★ वाऽनुवपुस्तदा । २ पतङ्गशिशुवत् ।
प्रथमं पर्व
तृतीयः
सर्गः श्रीऋषभस्वामिचरितम् ।
समवसरणम् ।
॥ १६५ ॥