________________
त्रिषष्टि
शलाकापुरुषचरिते
।। १६४ ।।
माणिक्यतोरणास्तत्र, पताकामालभारिणः । रश्मिजालैर्विरचितान्यपताका इवाऽभवन् ।। ४३९ ।। प्रतिवप्रं च चत्वारि, गोपुराणि चकाशिरे । चतुर्विधस्य धर्मस्य, क्रीडावातायना इव ।। ४४० ।। इन्द्रनीलमणिस्तम्भायितधूमलतामुचः । द्वारे द्वारे धूपघट्योऽमुच्यन्त व्यन्तरामरैः ।। ४४१ ।। प्रतिद्वारं विचक्रे तैर्वापी काञ्चनपङ्कजा । समवसरणवप्र, इव द्वारचतुष्कभृत् ।। ४४२ ।। प्राकारस्य द्वितीयस्याऽन्तरे चोत्तरपूर्वतः । देवच्छन्दं विचक्रुस्ते, स्वामिविश्रामहेतवे ।। ४४३ ।। तत्र प्रथमवप्रस्य, द्वास्थौ प्राग्द्वारि तस्थतुः । स्वर्णवर्णावुभयतो, वैमानिकदिवौकसौ ।। ४४४ ।। तस्यैव दक्षिणद्वारपार्श्वयोर्द्वारपालकौ । प्रतिबिम्बे इवाऽन्योऽन्यस्याऽस्थातां व्यन्तरौ सितौ ।। ४४५ ।। अभितः पश्चिमद्वारं, ज्योतिष्कौ द्वारपालकौ । रक्तवर्णौ वितष्ठाते, सायमिन्दुरवी इव ॥ ४४६ ॥ तस्थतुश्च प्रतीहारावुत्तरद्वारपार्श्वयोः भवनाधिपती कृष्णौ, मेघाविव समुन्नतौ ॥ ४४७ ॥ द्वितीयवप्रद्वारेषु, प्राक्क्रमेण चतुर्ष्वपि । सर्वा अप्यभयपाशाङ्कुशमुद्गरपाणयः ।। ४४८ । देव्यो जया च विजया, चाऽजिता चाऽपराजिता । तस्थुश्चन्द्राश्मशोणाश्मस्वर्णनीलत्विषः क्रमात् ।। ४४९ ।। अन्त्यवप्रे प्रतिद्वारं, तस्थौ द्वास्थस्तु तुम्बुरुः । खट्वाङ्गी नृशिरः स्रग्वी, जटामुकुटमण्डितः ।। ४५० ।। मध्ये समवसरणं, चैत्यद्रुर्व्यन्तरैः कृतः । क्रोशत्रयोदयो रत्नत्रयोदयमिवोद्दिशन् ।। ४५१ ।। तस्याऽधो विविधै रत्नैः, पीठं विदधिरे च ते । तस्योपरि च्छन्दकं चाऽप्रतिच्छन्दमणीमयम् ।। ४५२ ।। तन्मध्ये पूर्वदिग्भागे, रत्नसिंहासनं ततः । सपादपीठं ते चक्रुः सारं सर्वश्रियामिव ।। ४५३ ।।
१] श्वेतवर्णौ । २ खट्वाङ्गायुधधारी । ३ मुण्डमाली । ४ उच्छ्रयः । ५ अप्रतिममणिमयम् ।
Tuki [!
प्रथमं पर्व तृतीयः सर्गः श्रीऋषभस्वामिचरितम् ।
समवसरणम् ।
॥ १६४ ॥