SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरिते प्रथमं पर्व तृतीयः सर्गः श्रीऋषभस्वामिचरितम् । ॥१६३ ॥ व्यन्तराः स्वर्णमाणिक्यरत्नाश्मभिरुदंशुभिः । आत्मानमिव भक्त्या तद्, बबन्धुर्वसुधातलम् ।। ४२४ ।। तत्राऽधोमुखवृन्तानि, प्रोद्गतानीव भूतलात् । पञ्चवर्णानि पुष्पाणि, सुगन्धीन्यकिरंश्च ते ।। ४२५ ॥ तोरणानि विचक्रुश्च, रत्नमाणिक्यकाञ्चनैः । चतसृष्वपि ते दिक्षु, तद्भूषाकण्ठिका इव ॥ ४२६ ॥ अन्योऽन्यदेहसङक्रान्तप्रतिबिम्बैर्बभासिरे । आलिङ्गित्ता इवाऽऽलीभिस्तत्रोच्चैः शालभञ्जिकाः ॥ ४२७ ।। स्निग्धेन्द्रनीलघटिता, मकरास्तेषु रेजिरे । प्रणश्यन्मकरकेतुत्यक्तकेतुभ्रमप्रदाः ॥४२८ ॥ भगवत्केवलज्ञानकल्याणभवया मुदा । हासा इव दिशां रेजुः, श्वेतच्छत्राणि तत्र च ।। ४२९ ॥ ध्वजाश्च भेजिरे तत्र, भूदेव्याऽतिप्रमोदतः । उत्तम्भिता इव भुजाः, स्वयं नर्तितुकामया ॥ ४३०॥ तोरणानामधस्तेषां बलिपट्टेष्विवोच्चकैः । मङ्गलस्याऽष्ट चिह्नानि, स्वस्तिकादीनि जज्ञिरे ।। ४३१ ।। तत्रोपरितनं वप्रं, विमानपतयो व्यधुः । रत्नमयं रत्नगिरेराहृतां मेखलामिव ।। ४३२ ।। नानामणिमयान्यासन्, कपिशीर्षाणि तत्र च । अंशुभिः सूत्रयन्ति द्या, चित्रवर्णाशुकामिव ।। ४३३ ।। मध्यभागे पुनः स्वाङ्गज्योतिभिरिव पिण्डितैः । प्राकारं कनकैयॊतिष्पतयस्तत्र चक्रिरे ।। ४३४ ।। रत्नैर्विरचयामासुः, कपिशीर्षाणि तत्र च । सुरासुरवधूवक्त्ररत्नादर्शायितानि ते ॥४३५ ॥ रुप्यवप्रश्च भवनपतिभिस्तद्बहिष्कृतः । भक्तितो मण्डलीभूत, इव वैताठ्यपर्वतः ॥ ४३६ ॥ तस्योपरि विशालानि, कपिशीर्षाणि जज्ञिरे । सौवर्णान्यम्बुजानीव, दिविषद्दीर्घिकाजले ॥४३७ ॥ भवनाधिपतिज्योतिष्पतिवैमानिकश्रियाम् । एकैककुण्डलेनेव, सौ त्रिवप्रीकृता बभौ ।। ४३८ ॥ १ पुष्पबन्धनस्थानानि । २ पुत्तलिकाः । ३ समवसरणभूमिः । समवसरणम् । ।। १६३॥
SR No.009654
Book TitleTrishashti Shakala Purush Charitam Part 1
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages399
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy