________________
त्रिषष्टिशलाका
पुरुषचरिते
।। १६२ ।।
सुगन्धिदीर्घनिश्वासश्चलदीर्घकराङ्गुलिः । दीर्घोष्ठपल्लवो दीर्घमेहनो दीर्घवालधिः ।। ४०९ ।।
घण्टाभ्यां पार्श्वयोश्चन्द्रार्काभ्यां मेरुरिवाऽङ्कितः । देवद्रुकुसुमावेष्टं, कक्षानाडीं च धारयन् ॥ ४१० ॥ मुखान्यष्टौ हेमपट्टाञ्चितभालानि तस्य च । बभुर्दिगष्टक श्रीणामिव विभ्रमभूमयः ।। ४११ ॥ अष्टौ मुखे मुखे दन्तास्तिरश्चीनायतोन्नताः । दृढाश्चकाशिरे तस्य, महाद्रेरिव दन्तकाः ।। ४१२ ।। दन्ते दन्ते पुष्करिणी, स्वादुनिर्मलपुष्करा । गिरौ वर्षधरे वर्षधरे हृद इवाऽभवत् ।। ४१३ ।। पुष्करिण्यां पुष्करिण्यामष्टावम्भोरुहाणि च । अब्देवीभिः कृतानीव, मुखानि बहिरम्भसः ॥ ४१४ ।। दलानि विपुलान्यष्टाम्भोरुहेऽम्भोरुहेऽपि च । क्रीडत्सुरस्त्रीविश्रामान्तरीपाणीव रेजिरे ।। ४१५ ।। दले दलेऽष्टसङ्ख्यानि, नाटकानि विरेजिरे । चतुर्विधैरभिनयैः, सनाथानि पृथक् पृथक् ।। ४१६ । द्वात्रिंशदासन् पात्राणि, नाटके नाटकेऽपि च । निर्झरा इव सुस्वादरसकल्लोलसम्पदः ।। ४१७ ।। वासवः सपरीवारस्तं वारणवरं ततः । अग्रासनेऽध्यारुरोह, कुम्भाग्रच्छन्ननाभिकः ।। ४१८ ॥ आसीनसपरीवारवासवो वारणाधिपः । सहसा सकलः कल्पः, सौधर्म इव सोऽचलत् ॥ ४१९ ॥ क्षणादपि तदुद्यानमृषभस्वामिपावितम् । स प्राप पालक इव, स्ववपुः सङ्क्षिपन् क्रमात् ॥ ४२० ॥ इन्द्राः समं देवगणैरपरेऽप्यच्युतादयः । अहंपूर्विकयेवेयुस्तत्रोच्चैर्दधतस्त्वराम् ।। ४२१ ।। इतः समवसरणस्याऽवनीमेकयोजनाम् । अमृजन् वायुकुमाराः, स्वयं मार्जितमानिनः ॥ ४२२ ॥ गन्धाम्बुवृष्टिभिर्मेघकुमाराः सिषिचुः क्षितिम् । सुगन्धिबाष्पैः सोत्क्षिप्तधूपार्धेवैष्यतः प्रभोः ॥ ४२३ ॥ १ शुण्डाग्रः । २ दीर्घपुच्छः । ३ अन्तरद्वीपाणीव ।
प्रथमं पर्व
तृतीयः
सर्गः
श्री ऋषभस्वामि
चरितम् ।
इन्द्राणा
मागमनम् ।
॥ १६२ ॥