________________
प्रथमं पर्व
त्रिषष्टिशलाकापुरुषचरिते
ततीयः
सर्गः
॥१६१ ।।
श्रीऋषभस्वामिचरितम् ।
ऐक्यश्रुतमवीचार, शुक्लध्यानं द्वितीयकम् । क्षणादासादयदथ, क्षीणमोहान्तिमक्षणे ।।३९४ ।। पञ्च ज्ञानावरणानि, दृष्ट्यावृतिचतुष्टयम् । अन्तरायांश्च पञ्चेति, घातिशेषमनाशयत् ।। ३९५ ।। अथ व्रतात् सहस्राब्धां, फाल्गुनैकादशीदिने । कृष्णे तथोत्तराषाढास्थिते चन्द्रे दिवामुखे ।।३९६ ।। उत्पेदे केवलज्ञानं, त्रिकालविषयं विभोः । हस्तस्थितमिवाऽशेषं, दर्शयद् भुवनत्रयम् ।। ३९७ ॥ ।। युग्मम् ।। दिशः प्रसेदुरभवन्, वायवः सुखदायिनः । नारकाणामपि तदा, क्षणं सुखमजायत ।।३९८ ।। अथेन्द्राणामशेषाणामासनानि चकम्पिरे । तान् नोदितुमिव स्वामिकेवलोत्सवकर्मणे ॥३९९ ॥ प्रणेदुरिन्द्रलोकेषु, महाघण्टाः पटुस्वनाः । सद्यो दूत्य इव स्वस्वलोकाकारणकर्मणि ।। ४०० ॥ यियासोः स्वामिपादान्ते, सौधर्माधिपतेः सुरः । ऐरावणो गजीभूय, चिन्तामात्रादुपास्थित ।। ४०१ ।। विराजमानस्तन्वा स, लक्षयोजनमानया । दिक्षुः स्वामिनं मेरुरिव जङ्गमतां गतः ॥ ४०२ ॥ अङ्गप्रभाभिर्नीहारधवलाभिः समन्ततः । ककुभां चान्दनमिव, वितन्वानो विलेपनम् ।। ४०३ ।। गण्डस्थलगलद्दानजलैरतिसुगन्धिभिः । स्वर्गाङ्गणभुवं कुर्वन्, कस्तूरीस्तबकाङ्किताम् ॥ ४०४ ॥ कर्णतालैस्तालवृन्तैरिव लोलैर्निवारयन् । कपोलतलसम्पातिगन्धान्धमधुपावलीम् ॥ ४०५ ।। कुम्भस्थलपराभूतबालमार्तण्डमण्डलः । आनुपूर्वीपीनवृत्तशुण्डानुकृतनागराट् ।। ४०६ ॥ मध्वाभनेत्रदशनस्ताम्रपत्राभतालुकः । भम्भावृत्तशुभग्रीवः, पृथुगात्रान्तरालकः ।। ४०७ ।। अधिज्यीकृतधन्वाभपृष्ठवंशः कृशोदरः । चन्द्रमण्डलसङ्काशनखमण्डलमण्डितः ।। ४०८ ॥ १ दर्शनावरणचतुष्टयम् । २ सहस्रवर्षेषु गतेषु । ३ आह्वानकर्मणि । ४ मधुवर्णनेत्रदन्तः ।
ऐरावणगजः।
|| १६१॥