________________
त्रिषष्टिशलाकापुरुषचरिते
प्रथमं पर्व तृतीयः सर्गः श्रीऋषभस्वामिचरितम् ।
॥१६०॥
कुलिशाङ्कुशचक्राब्जध्वजमत्स्यादिलाञ्छितैः । दृष्टैः स्वामिपदन्यासैदृष्टः स्वाम्येव भावतः ।। ३७८ ॥ श्रुत्वेति स्वामिनस्तानि, पदबिम्बानि भक्तितः । सान्तःपुरपरीवारः, सुनन्दासूरवन्दत ।। ३७९ ।। पदान्येतानि मा स्माऽतिक्रामत् कोऽपीति बुद्धित. । धर्मचक्रं रत्नमयं, तत्र बाहुबलिय॑धात् ।। ३८० ।।
अष्टयोजनविस्तार, तच्च योजनमुच्छ्रितम् । सहस्रारं बभौ बिम्ब, सहस्रांशोरिवाऽपरम् ।। ३८१ ।। त्रिजगत्स्वामिनस्तस्य, प्रभावादतिशायिनः । सद्यस्तत्कृतमेवैक्षि, दुष्करं घुसदामपि ।। ३८२ ॥ तत् तथाऽपूजयद् राजा, पुष्पैः सर्वत आहूतैः । समलक्षि यथा पौरैः, पुष्पाणामिव पर्वतः ।। ३८३ ।। तत्र प्रवरसङ्गीतनाटकादिभिरुद्भटम् । नन्दीश्वरे शक्र इव, स चक्रेऽष्टाह्निकोत्सवम् ।। ३८४ ।। आरक्षकानर्चकांश्च, तत्राऽऽदिश्य विशांपतिः । नमस्कृत्य च कृत्यज्ञो, जगाम नगरी निजाम् ।। ३८५ ।। भगवानप्यनायत्तः, समीरण इवाऽस्खलन् । नानाविधतपोनिष्ठो, विविधाभिग्रहोद्यतः ।। ३८६ ।। यवनाडम्बइल्लादिम्लेच्छदेशेषु मौनभाक् । अनार्यान् भद्रकीकुर्वन्, दर्शनेनाऽपि देहिनः ।। ३८७ ।। उपसगैरसंस्पृष्टः सहमानः परीषहान् । सहस्रमेकं वर्षाणां, व्यहरद् दिनलीलया ।। ३८८ ।। अयोध्याया महापुर्याः, शाखानगरमुत्तमम् । ययौ पुरिमतालाख्यं, भगवानृषभध्वजः ।। ३८९ ।। तस्य चोत्तरतो रम्यं, द्वितीयमिव नन्दनम् । उद्यानं शकटमुखं, नाम न्यविशत प्रभुः ।। ३९० ॥ कृताष्टमतपास्तत्र, न्यग्रोधस्य तरोरधः । प्रतिमास्थोऽप्रमत्ताख्यं, गुणस्थानं प्रपन्नवान् ।। ३९१ ।। ततश्चाऽपूर्वकरणमारुढः प्रत्यपद्यत । शुक्लध्यानं सवीचारं, पृथक्त्वेन वितर्कयुक् ।। ३९२ ।। प्राप्याऽनिवृत्तिं च सूक्ष्मसम्परायगुणं ततः । क्षणात् क्षीणकषायत्वं, प्रतिपेदे जगद्गुरुः ।। ३९३ ।।
प्रभोः केवलज्ञानोत्पत्तिः ।
|| १६०॥