________________
त्रिषष्टि
शलाका
पुरुषचरिते
।। १५९ ।।
महाबाहुर्बाहुबलिः, पाणिभ्यां वर्तयन् शृणिम् । श्रीणामाकर्षणक्रीडां, कुटिकामुल्बणामिव ।। ३६४ ।। बन्दिवृन्दजयजयारावपूरितदिङ्मुखः । स्वामिपादपवित्रस्योपवनस्याऽन्तिकं ययौ ।। ३६५ ।।
॥ एकविंशत्या कुलकम् ॥ अवरुह्य करिस्कन्धाद्, वैनतेय इवाऽम्बरात् । छत्रादिप्रक्रियां त्यक्त्वा, तदुद्यानं विवेश सः ।। ३६६ ।। व्योमेव चन्द्ररहितं, सुधाकुण्डमिवाऽसुधम् । तदस्वामिकमुद्यानमपश्यदृषभात्मजः ।। ३६७ ।। क्व नाम भगवत्पादा, नयनानन्ददायिनः ? । इत्यपृच्छदर्तुच्छेच्छः, सर्वानुद्यानपालकान् ।। ३६८ ।। तेप्यूचुः किञ्चिदप्यग्रे, यामिनीव ययौ बिभुः । यावत् कथयितुं यामस्तावद् देवोऽप्युपाययौ ।। ३६९ ॥ हस्तविन्यस्तचिबुको, बाष्पायितविलोचनः । अथेदं चिन्तयामास, ताम्यंस्तक्षशिलापतिः ॥ ३७० ॥ स्वामिनं पूजयिष्यामि, समं परिजनैरिति । मनोरथो मुधा मेऽभूद्, हृदि बीजमिवोर्षरे ।। ३७१ ।। चिरं कृतविलम्बस्य, लोकानुग्रहकाम्यया । धिगियं मम सा जज्ञे, स्वार्थभ्रंशेन मूर्खता ।। ३७२ ।। धिगियं वैरिणी रात्रिर्धिगियं च मतिर्मम । अन्तरायकरी स्वामिपादपद्मावलोकने ।। ३७३ ॥ विभातमप्यविभातं, भानुमानप्यभानुमान् । दृशावप्यदृशावेव, पश्यामि स्वामिनं न यत् ।। ३७४ ।। अत्र प्रतिमया तस्थौ, रात्रिं त्रिभुवनेश्वरः । अयं पुनर्बाहुबलिः, सौधे शेते स्म निस्त्रपः ।। ३७५ ।। अथ बाहुबलिं दृष्ट्वा चिन्तासन्तानसङ्कुलम् । उवाच सचिवो वाचा, शोकशल्यविशल्यया ।। ३७६ ।। अत्र स्वामिनमायातं, नाऽपश्यमिति शोचसि । किं देव ! नित्यवास्तव्यः, स एव हृदि यस्य ते ? ॥ ३७७ ॥ १ अड्डशम् । यारावपूरिताखिलदि । २ महेच्छः । ३ क्षारभूमौ । सुष्वाप नि ।
प्रथमं पर्व
तृतीयः
सर्गः
श्रीऋषभस्वामि
चरितम् ।
प्रभोरदर्श
बाहुबलेः
पश्चात्तापः,
धर्मचक्र
स्थापनं च ।
।। १५९ ।।