________________
त्रिषष्टि
शलाका
पुरुषचरिते
।। १५८ ।।
सचामराभ्यां च वारस्त्रीभ्यां सेवितपार्श्वकः । सराजहंसाभ्यां गङ्गायमुनाभ्यां प्रयागवत् ।। ३५० ।। धवलेनाऽऽतपत्रेणो परिस्थेनाऽतिहारिणा । राकानिशीथशशिना, सानुमानिव शोभितः ।। ३५१ ।। सुवर्णदण्डहस्तेन, प्रतीहारेण चाऽग्रतः । शोध्यमानपथो देवेनन्दिना देवराडिव ।। ३५२ ।। अन्वीयमानोऽश्वारुढैः, रत्नाभरणभूषितैः । पौरैरिभ्यैरसङ्ख्यातैः, श्रीदेव्या इव पुत्रकैः ।। ३५३ ।। शिलोच्चयशिलापृष्ठमिव पञ्चाननो युवा । भद्रद्विपपतिस्कन्धमध्यारुढः सुरेन्द्रवत् ।। ३५४ ।। विराजमानः शिरसि, तदङ्गीभूतकान्तिना । रत्नमयकिरीटेन, चूलयेवाऽमराचलः ।। ३५५ ॥ बिभ्रन्मुक्ताकुण्डले च, वदनस्य श्रिया जितौ । सेवाकृते समायातौ, जम्बूद्वीपर्विधू इव ।। ३५६ ।। स्थूलमुक्तामणिमयं, हारयष्टिं च धारयन् । हृदये मन्दिरे लक्ष्म्या, वप्रसब्रह्मचारिणम् ॥ ३५७ ॥ दोर्मूलयोर्दधानश्च, जात्यजाम्बूनदाङ्गदौ । दृढौ नवलतावेष्टाविवोच्चैर्भुजशाखिनोः ।। ३५८ ।। मुक्तामणिमयौ बिभ्रत्कङ्कणौ मणिबन्धयोः । लावण्यसरितस्तीरवर्तिफेनच्छोपमौ ।। ३५९ ॥ अङ्गुलीये च बिभ्राणः, कान्तिपल्लविताम्बरे । मणी इवाऽनणीयांसौ, पाण्योः फणिफणश्रियोः ।। ३६० ।। चोलकेनाऽङ्गलग्नेन, सूक्ष्म श्वेतेन शोभितः । असंलक्ष्यविभेदेन, श्रीचन्दनविलेपनात् ।। ३६१ ॥ चारुमन्दाकिनीवीचिनिचयस्पर्द्धिनीं पटीम् । धारयन् परितो राकाचन्द्रमाश्चन्द्रिकामिव ॥ ३६२ ॥ विचित्रवर्णरुचिरेणाऽन्तरीयेण रोचितः । नानाधातूपत्यकया, निषेवित इवाऽचलः ।। ३६३ ।। १ पूर्णिमारात्रिचन्द्रेण । २ इन्द्रप्रतीहारेण । ३ केशरी । ४ जम्बूद्वीपस्थचन्द्रौ इव । ५ जात्यसुवर्णकेयूरौ । ६ महान्तौ । ७ पर्वतासन्नभूम्या ।
२०
प्रथमं पर्व
तृतीयः
सर्गः
श्रीऋषभस्वामि
चरितम् ।
बाहुबलेन्दनार्थमागमनम् ।
।। १५८ ।।