________________
त्रिषष्टिशलाका
पुरुषचरिते
।। १५७ ।।
स्वामी सम्प्राप सायाह्ने, निकुञ्जमिव कुञ्जरः । बहलीमण्डले बाहुबलेस्तक्षशिलापुरीम् ॥ ३३५ ॥ तस्याश्च बहिरुद्याने, तस्थौ प्रतिमया प्रभुः । गत्वा च बाहुबलये, तदायुक्तैर्न्यवेद्यत ।। ३३६ ॥ अथाऽऽदिक्षत् पुरारक्षं, क्ष्मापतिस्तत्क्षणादपि । विचित्रं हट्टशोभादि, नगरे क्रियतामिति ॥ ३३७ ॥ पदे पदेऽभवद् रम्भास्तम्भतोरणमालिका । लम्बमानमहा लुम्बिचुम्बिताध्वन्यमौलिका ॥ ३३८ ॥ मञ्चाः प्रतिपथं चासन्, रत्नभाजनभासुराः । विमानानीव भगवद्दर्शनायातनाकिनाम् ॥ ३३९ ॥ अनिलान्दोलितोद्दामपताकामालिकाच्छलात् । पूः सहस्रभुजीभूय, ननर्तेव मुदा तदा ।। ३४० ॥ नव्यकुङ्कुमपानीयच्छटाभिरभितोऽप्यभूत् । सद्यो रचितमङ्गल्याङ्गरागेव वसुन्धरा ।। ३४१ ।। भगवद्दर्शनोत्कण्ठारर्जनीजानिसङ्गमात् । पुरं तदानीमुन्निद्रमभूत् कुमुदषण्डवत् ।। ३४२ ॥ प्रातः स्वं पावयिष्यामि, लोकं च स्वामिदर्शनात् । इतीच्छतो बाहुबलेः, साऽभून्मासोपमा निशा ।। ३४३ ॥ तस्यामीषद्विभातायां, विभावर्यां जगद्विभुः । प्रतिमां पारयित्वाऽगात् क्वचिदन्यत्र वायुवत् ॥ ३४४ ॥ प्रातश्च बद्धमुकुटैर्महद्भिर्मण्डलेश्वरैः । भूयिष्ठैरिव मार्तण्डैः परितः परिवारितः ।। ३४५ । उपायानामिवाऽगारैरर्थशास्त्रैरिवाऽङ्गिभिः । शुक्राद्यैरिव भूयिष्ठैर्वरिष्ठैर्मन्त्रिभिर्वृतः ।। ३४६ ।। जगल्लङ्घनजङ्घालैर्लक्षसङ्खयैस्तुरङ्गमैः । गूढपक्षैः पक्षिराजैरिव विष्वग् विराजितः ।। ३४७ ।। क्षरन्मदजलासारशमितक्षितिरेणुभिः । उत्तुङ्गैः शोभितो नागैर्नगैरिव सनिर्झरैः ॥ ३४८ ॥ वसन्तश्रीप्रभृत्यन्तःपुरस्त्रीभिः सहस्रशः । पातालकन्याभिरिवाऽसूर्यम्पश्याभिरावृतः ।। ३४९ ।
१ बहलीदेशे । । २ चन्द्रः । ३ वेगवद्भिः ।
प्रथमं पर्व तृतीयः सर्गः
श्रीऋषभ
स्वामिचरितम् ।
ऋषभप्रभो
बहलीदेशे
गमनं,
बाहुबलेवन्दनार्थ
मागमनं
च ।
॥। १५७ ।।