________________
त्रिषष्टिशलाकापुरुषचरिते
प्रथमं पर्व तृतीयः सर्गः श्रीऋषभस्वामिचरितम् ।
न ज्ञापितमिदं भर्चा, न जानीमस्ततो वयम् । त्वया पुनः कुतो ज्ञातमिति शंसितुमर्हसि ।। ३१९ ।। व्याजहार कुमारोऽपि, भगवद्दर्शनान्मम । जातिस्मरणमुत्पन्न, धीरिव ग्रन्थदर्शनात् ।। ३२० ।। अमुना स्वामिना सार्द्धमष्टौ जन्मान्तराण्यहम् । भृत्यो ग्रामान्तराणीव, पर्याटं स्वर्गमर्त्ययोः ।। ३२१ ।। इतो भवात् तृतीयस्मिन्नतिक्रान्तभवे प्रभोः । पिताऽभवद् वज्रसेनो, विदेहभुवि तीर्थकृत् ।। ३२२ ।। तदन्तिके प्रव्रजितः, स्वामी पश्चादहं पुनः । तज्जन्मस्मरणादेतदज्ञायि सकलं मया ।। ३२३ ।। तथा मे तातपादानां, सुबुद्धिश्रेष्ठिनोऽपि च । त्रयाणामपि स्वप्नानां, प्रत्यक्षमधुना फलम् ।। ३२४ ॥ श्यामो मेरुर्मया दृष्टः पयोभिः क्षालितश्च यत् । तपःक्षामः स हि स्वामीक्षुरसैः पारणादभात् ।। ३२५ ॥ युध्यमानोऽरिभिर्यस्तु, राज्ञा दृष्टः प्रभुर्हि सः । मत्पारणकसान्निध्यात्, पराजिग्ये परीषहान् ।। ३२६ ॥ सुबुद्धिश्रेष्ठिना यच्च, दृष्टमादित्यमण्डलात् । गोसहस्रं च्युतं न्यस्तं, मयाऽथाऽर्कोऽधिकं बभौ ।। ३२७ ।। आदित्यो भगवानेष, गोहस्रं तु केवलम् । तद् भ्रष्टं पारणेनाऽद्य, मयाऽयोजि बभौ च सः ।। ३२८ ।। एतच्छ्रुत्वा च ते सर्वे, श्रेयांसं साधु साध्विति । भाषमाणाः प्रमुदिताः, स्थानं निजनिजं ययुः ।। ३२९ ।। कृतपारणकः स्वामी, श्रेयांससदनात् ततः । जगामाऽन्यत्र नैकत्र, तिष्ठेच्छद्मस्थतीर्थकृत् ।। ३३० ॥ भगवत्पारणस्थानातिक्रमं कोऽपि मा व्यधात् । इति रत्नमयं तत्र, श्रेयांसः पीठमादधे ।। ३३१ ।। त्रिसन्ध्यमपि तद् रत्नपीठं भक्तिभरानतः । श्रेयांसः पूजयामास, साक्षात् पादाविव प्रभोः ।। ३३२ ।। किमेतदिति लोकेन, पृष्टः सोमप्रभात्मजः । आदिकृन्मण्डलमिदमिति तं शंसति स्म तत् ।। ३३३ ।। यत्र यत्र प्रभुर्भिक्षामग्रहीत् तत्र तत्र च । पीठं लोकोऽकृताऽऽदित्यपीठं तच्च क्रमादभूत् ॥ ३३४ ।।
आदित्यपीठम् ।
|| १५६ ॥