________________
त्रिषष्टिशलाका
पुरुषचरिते
प्रथमं पर्व तृतीयः सर्गः श्रीऋषभस्वामिचरितम् ।
।। १५५ ॥
ते च कच्छमहाकच्छादयः क्षत्रियतापसाः । आजग्मुरुद्दाममुदः, स्वामिपारणवार्तया ।। ३०४ ।। राजानो नागराश्चाऽन्ये, जना जानपदा अपि । पुलकोत्फुल्लवपुषः, श्रेयांसमिदमूचिरे ।। ३०५ ॥ भो भोः कुमार! धन्योऽसि, नृणामसि शिरोमणिः । यदिक्षुरस आहारः, स्वामिना ग्राहितस्त्वया ॥३०६ ॥ प्रदीयमानमस्माभिः, सर्वस्वमपि नाऽऽत्तवान् । नाऽमन्यत तृणायाऽपि, प्रसन्नोऽस्मासु न प्रभुः ।। ३०७ ।। संवत्सरमटन् स्वामी, ग्रामाकरपुराटवीः । कस्याऽप्यादत्त नाऽऽतिथ्यं, धिगस्मान् भक्तमानिनः ।। ३०८ ।। दूरेऽस्तु वस्तुग्रहणं, दूरे वेश्मसु विश्रमः । अद्य यावन्न वाचाऽपि, स्वामी नः समभावयत् ।। ३०९ ।। पुत्रवत् त्रातपूर्वी नः, पूर्वलक्षाण्यनेकशः । असंस्तव इवेदानीं, प्रभुरस्मासु वर्तते ।। ३१० ।। श्रेयांसस्तानुवाचैवं, किमेवमभिधीयते ? । न ह्ययं पूर्ववत् स्वामी, परिग्रहपरो नृपः ।। ३११ ।। इदानीं वर्तते भर्त्ता, भवावर्तीन्निवर्तितुम् । कृतनिःशेषसावधव्यापारविरतिर्यतिः ।। ३१२ ॥ स्नानाङ्गरागनेपथ्यवस्त्राणि स्वीकरोति सः । यो भोगेच्छुः स्वामिनस्तु, तद्विरक्तस्य किं हि तैः ? ॥ ३१३ ॥ कन्यकाः स हि गृह्णाति, यः कामविवशो जनः । स्वामिनो जितकामस्य, कामिन्यः काममश्मर्वत् ॥३१४ ॥ हस्त्यश्वादि स गृह्णाति, यो महीराज्यमिच्छति । भर्तुः संयमसाम्राज्यभाजस्तद्दग्धवस्त्रवत् ।। ३१५ ॥ फलादिकं स गृह्णाति, सजीवं यो हि हिंसकः । स्वामी त्वखिलजन्तूनामसौ जीवाभयप्रदः ।। ३१६ ।। एषणीयं कल्पनीयं, प्रासुकं च जगत्पतिः । आदत्तेऽन्नादि तन्मुग्धा, भवन्तो न हि जानते ॥३१७ ॥ ऊचिरे युवराजं ते, स्वामिना ज्ञापितं पुरा । यत् किञ्चिदपि शिल्पादि, तन्मात्रं जानते जनाः ।। ३१८ ॥ १ रक्षितपूर्वी ।२ अपरिचित इव । ३ संसाररुपजलावर्तात् । ४ पाषाणवत् ।
ऋषभप्रभोः प्रथमा भिक्षा, श्रेयांसस्य प्रथम दानं च।
|| १५५॥