________________
त्रिषष्टिशलाकापुरुषचरिते
प्रथमं पर्व तृतीयः सर्गः श्रीऋषभस्वामिचरितम् ।
॥ १५४ ॥
अत्रान्तरे कुमारस्य, प्राभृते केनचिन्मुदा । नवेक्षुरससम्पूर्णा, ढौकयाञ्चक्रिरे घटाः ।। २९० ॥ ततो विज्ञातनिर्दोषभिक्षादानविधिः स ते । गृह्यतां कल्पनीयोऽयं, रस इत्यवदद् विभुम् ।। २९१ ॥ प्रभुरप्यअलीकृत्य, पाणिपात्रमधारयत् । उत्क्षिप्योत्क्षिप्य सोऽपीक्षुरसकुम्भानलोठयत् ।। २९२ ।। भूयानपि रसः पाणिपात्रे भगवतो ममौ । श्रेयांसस्य तु हृदये, ममुर्न हि मुदस्तदा ।। २९३ ।। स्त्यानो नु स्तम्भितो न्वासीद्, व्योग्नि लग्नशिखो रसः । अञ्जलौ स्वामिनोऽचिन्त्यप्रभावाः प्रभवः खलु ॥२९४ ।। ततो भगवता तेन, रसेनाऽकारि पारणम् । सुरासुरनृणां नेत्रैः पुनस्तदर्शनामृतैः ।। २९५ ।। दिवि दुन्दुभयो नेदुः, प्रतिनादोन्मदिष्णवः । श्रेयांसश्रेयसां ख्यातिकरा वैतालिका इव ।। २९६ ॥ रत्नवृष्टिरभूच्छ्रेयांसौकसि त्रिदिवौकसाम् । सममानन्दसम्भूतजननेत्राश्रुवृष्टिभिः ।। २९७ ।। दिवो देवाः पञ्चवर्णपुष्पवृष्टिं वितेनिरे । पृथ्वी पूजयितुमिव, स्वामिपादपवित्रिताम् ।। २९८ ।। सर्वामढुकुसुमनिःस्यन्दैरिव सञ्चितैः । चक्रुर्गन्धाम्बुभिवृष्टि, त्रिविष्टपसदस्तदा ।। २९९ ।। विदधानो दिवं दीव्यद्विचित्राभ्रमयीमिव । चेलोत्क्षेपः सुरनरैश्चक्रे चामरसोदरः ।।३०० ।। रोधशुक्लतृतीयायां, दानमासीत् तदक्षयम् । पर्वाक्षयतृतीयेति, ततोऽद्यापि प्रवर्तते ।।३०१ ॥ श्रेयांसोपज्ञमवनौ, दानधर्मः प्रवृत्तवान् । स्वाम्युपज्ञमिवाऽशेषव्यवहारनयक्रमः ॥३०२ ॥ स्वामिपारणका देवसम्पाताच्चाऽथ विस्मिताः । राजानो नागराश्चान्येऽप्येयुः श्रेयांसवेश्मनि ॥३०३ ॥ १ श्रेयांसकल्याणानाम् । २ वन्दिनः ।३ वैशाखशुक्लतृतीयायाम् । ४ श्रेयांसोपज्ञं प्रथम श्रेयांसेन प्रकटीकृतो दानधर्मः प्रवृत्तवान् । ५ स्वाम्युपज्ञं प्रथम ऋषभस्वामिना प्रकटीकृतोऽशेषव्यवहारनयक्रमः प्रवृत्तवान् ।
ऋषभप्रभोप्रथमा भिक्षा, श्रेयांसस्य प्रथम दानं च ।
|| १५४॥