________________
त्रिषष्टिशलाकापुरुषचरिते
प्रथमं पर्व तृतीयः सर्गः श्रीऋषभस्वामिचरितम् ।
॥१५३ ॥
प्रत्यक्षीकारनिर्देश्या, जगत्रितयदेवता । इह भाग्यवशादायात्ययं ते प्रपितामहः ।। २७५ ॥ गवामिवाऽनुगोपालं, धावतां स्वामिनं ह्यमुम् । असौ सकलपौराणां, कलः कलकलोऽधुना ।। २७६ ॥ दृष्ट्वा स्वामिनमायान्तं, युवराजोऽपि तत्क्षणम् । अधावत् पादचारेण, पत्तीनप्यतिलङ्घयन् ।। २७७ ॥ छत्रोपानहमृत्सृज्य, युवराजेऽभिधाविनि । अच्छत्रोपानहा पर्षत्, तच्छायेवाऽन्वधावत ।। २७८ ॥ सम्भ्रमादुल्ललन् लोलकुण्डलो युवराड् बभौ । स्वामिनोऽग्रे पुनर्बाललीलामाकलयन्निव ।। २७९ ॥ गृहाङ्गणजुषो भर्तु ठित्वा पादपङ्कजे । श्रेयांसोऽमार्जयत् केशैभ्रमरभ्रमकारिभिः ।। २८० ॥ स उत्थाय जगद्भर्तुर्विधाय त्रिः प्रदक्षिणाम् । ननाम पादौ हर्षाश्रुवारिभिः क्षालयन्निव ।।२८१ ।। स ऊद्धभूय पुरतः, स्वामिनो मुखपङ्कजम् । ईक्षाञ्चक्रे मुदा चन्द्र, चकोर इव पार्वणम् ।।२८२ ।। ईदशं क्व मया दृष्टं, लिङ्गमित्यभिचिन्तयन् । विवेकशाखिनो बीजं, जातिस्मरणमाप सः ।। २८३ ।। विवेद चैवं यत् पूर्वविदेहे चक्रवर्त्यभूत् । भगवान् वज्रनाभोऽयं, जातोऽहं चाऽस्य सारथिः ।। २८४ ।। तस्मिन्नेव भवे भर्तुर्वजसेनाभिधः पिता । ईदशं तीर्थकृल्लिङ्गं, धारयन्नीक्षितो मया ।। २८५ ॥ स्वामिनो वज्रसेनस्य, पादान्ते समुपाददे । वज्रनाभः परिव्रज्यामहमप्यस्य पृष्ठतः ॥२८६ ॥ अर्हतो वज्रसेनस्य, मुखादश्रौषमित्यहम् । भरते वज्रनाभोऽसौ, भावी प्रथमतीर्थकृत् ।। २८७ ॥ स्वयम्प्रभादींश्च भवान्, पर्याटममुना सह । अधुना वर्तते स्वामी, ममैष प्रपितामहः ।। २८८ ॥ दिष्ट्या दृष्टो मया नाथः, समग्रजगतामपि । अनुग्रहीतुं मामेष, साक्षान्मोक्ष इवाऽऽगतः ॥२८९ ।।
ऋषभप्रभोः प्रथमा भिक्षा, श्रेयांसस्य प्रथम दानं च ।
|| १५३॥