________________
त्रिषष्टिशलाकापुरुषचरिते
प्रथमं पर्व तृतीयः
सर्गः
।।१५२ ।।
श्रीऋषभस्वामिचरितम् ।
कोऽप्युवाचाऽऽदत्स्व रथान्, सनाथान् जात्यवाजिभिः । किमेभिर्ननु कर्त्तव्यं, पादचारिणि भर्तरि ? ॥२६० ॥ कोऽप्यूचेऽमूनि पक्वानि, सहकारफलानि नः । उपादत्स्व प्रभो ! माऽवमंस्थाः प्रणयिनं जनम् ।। २६१ ।। कोऽप्यभाषिष्ट ताम्बूलवल्लीपत्राण्यमूनि मे । क्रमुकाण्यप्युपादत्स्व, प्रसीदैकान्तवत्सल ! ।। २६२ ॥ बभाषे कश्चिदप्येवमपराद्धं नु किं मया ? । यदशृण्वन्निव स्वामिन्नुत्तरं न प्रयच्छसि ? || २६३ ।। इत्यर्थ्यमानोऽकल्प्यत्वादगृह्णन् किमपि प्रभुः । गेहं गेहमुपेयाय, ऋक्षमृक्षमिवोडुपः ।। २६४ ॥ प्रातःकाले शकुन्तीनामिव कोलाहलं तदा । पौराणां परिशुश्राव, श्रेयांसः स्वाश्रयस्थितः ।। २६५ ।। किमेतदिति तेनाऽनुयुक्तो वेत्रधराग्रणीः । इति विज्ञपयामास, पुरोभूय कृताञ्जलिः ।। २६६ ।। लुठद्भिः पादपीठाग्रे, किरीटस्पृष्टभूतलम् । इन्द्रेनरेन्द्रैरिव यः, सेव्यते दृढभक्तिभिः ।। २६७ ।। जीवनोपायकर्माणि, लोकेष्वेकानुकम्पया । दर्शयाञ्चक्रिरे येन, पदार्था इव भानुना ।। २६८ ।। विभज्य भरतादीनां, युष्माकं चाऽपि भूरियम् । ददे येन स्वशेषेव, तदा दीक्षां जिघृक्षता ।। २६९ ।। यः स्वयं त्वाददे सर्वसावधपरिहारतः । कर्माष्टकमहापङ्कशोषग्रीष्मातपं तपः ॥ २७० ।। व्रतात् प्रभृति नाथोऽसौ, निःसङ्गो ममतोज्झितः । निराहारो विहरते, पादाभ्यां पावयन् महीम् ।। २७१ ।। सूर्यातपान्नोद्विजते, न च्छायामनुमोदते । तुल्य एवोभयत्राऽपि, स्वाम्ययं सानुमानिव ॥ २७२ ।। न विरज्यत्यसौ शीतादशीते च न रज्यति । वज्रकाय इव स्वामी, यत्र तत्राऽवतिष्ठते ।। २७३ ।। युगमात्रं दत्तदृष्टिरमृन्दन् कीटिकामपि । पादचारं करोत्येष, संसारकरिकेसरी ।। २७४ ।।
15RASHARASHARASHASAHARASHRS
ऋषभप्रभोः प्रथमा भिक्षा, श्रेयांसस्य प्रथम दानं च ।
|| १५२॥