________________
त्रिषष्टिशलाकापुरुषचरिते
प्रथमं पर्व तृतीयः सर्गः श्रीऋषभस्वामिचरितम् ।
।।१५१ ।।
अदृश्यत स्वर्णगिरिः, परितः श्यामलो मया । अभिषिच्य पयस्कुम्भैर्विहितोऽधिकमुअवलः ।। २४५ ।। (युग्मम्) सुबुद्धिश्रेष्ठिनाऽप्यैक्षि, गोसहसं रवेश्च्युतम् । श्रेयांसेनाऽऽहितं तत्र, ततोऽर्कोऽप्यतिभासुरः ।। २४६ ॥ अदर्शि सोमयशसा, राज्ञैको बहुभिः परैः । रुद्धः समन्ताच्छ्रेयांससाहाय्याज्जयमीयिवान् ।। २४७ ॥ त्रयस्ते सदसि स्वप्नानन्योऽन्यस्य न्यवीविदन् । तन्निर्णयमजानन्तः, स्वं स्वं स्थानं पुनर्ययुः ।। २४८ ।।। प्रादुर्भावयितुमिव, तदा तत्स्वप्ननिर्णयम् । भिक्षार्थ प्राविशत् स्वामी, नगरं हस्तिनापुरम् ।। २४९ ।। संवत्सरं निराहारोऽप्यायान् वृषभलीलया । ददृशे वृषभस्वामी, नागरैर्जातसम्मदैः ।। २५० ॥ उत्थायोत्थाय धावित्वा, धावित्वा च ससम्भ्रमम् । पौरैर्देशान्तरायातबन्धुवत् स्वाम्यवेष्ट्यत ।। २५१ ।। कोऽप्युवाचैहि भगवन् !, गृहाण्यनुगृहाण नः । वसन्तोत्सववद् देव!, चिरादसि निरीक्षितः ।। २५२ ।। कोऽप्यवादीदिदं सजं, स्नानीयं वसनं जलम् । तैलं पिष्ातकश्चेति, स्नाहि स्वामिन् ! प्रसीद नः ।।२५३ ।। कोऽप्यूचे स्वोपयोगेन, स्वामिन् ! मम कृतार्थय । जात्यचन्दनकर्पूरकस्तूरीयक्षकर्दमान् ।। २५४ ।। कोऽप्युवाच जगद्रत्न!, रत्नालङ्करणानि नः । स्वाङ्गाधिरोपणात् स्वामिन्नलङ्कुरु दयां कुरु ॥२५५ ॥ एवं व्यज्ञपयत् कोऽपि, गृहे समुपविश्य मे । स्वामिन्नङ्गानुकूलानि, दुकूलानि पवित्रय ।। २५६ ।। कश्चिदप्यब्रवीदेव, देव ! देवाङ्गनोपमाम् । प्रभो ! गृहाण नः कन्यां, धन्याः स्मस्त्वत्समागमात् ।। २५७ ।। कोऽप्यूचे पादचारेण, क्रीडयाऽपि कृतेन किम् ? । इममारोह शैलाभ, कुञ्जरं राजकुञ्जर ! ।। २५८ ॥ कोऽप्यजल्पन्मम हयान्, गृहाणाऽर्कहयोपमान् । किमातिथेयाग्रहणादयोग्यान् विदधासि नः ? ||२५९ ।। * न्यवीवदन् । + गृहाणानुसं ।
ऋषभप्रभोः प्रथमा भिक्षा, श्रेयांसस्य प्रथम दानं च।
&| १५१॥