________________
त्रिषष्टिशलाकापुरुषचरिते
प्रथमं पर्व तृतीयः
सर्गः
श्रीऋषभस्वामिचरितम् ।
॥१५०॥
सुमेरुशैलोद्यानेषु, कदाचिन्नन्दनादिषु । सदानन्दौ विजाते, स्वैरिणौ तौ समीरवत् ।। २२९ ।। नन्दीश्वरादितीर्थेषु, जग्मतुस्तौ कदाचन । शाश्वतप्रतिमार्चाय, श्राद्धश्रीणां फलं ह्यदः ।। २३० ॥ तौ कदाचिद् विदेहादिक्षेत्रेषु श्रीमदर्हताम् । गत्वा समवसरणे, पपतुर्वाक्सुधारसम् ।। २३१ ।। चारणश्रमणेभ्यश्च, कदाचिद् धर्मदेशनाम् । तौ शुश्रुवतुरुत्कर्णी, गीतं युवमृगाविव ।। २३२ ।। सम्यक्त्ववन्तावक्षीणकोशौ विद्याधरीवृतौ । त्रिवर्गाबाधया राज्यं, यथावत् तौ प्रचक्रतुः ।। २३३ ।। ते तु कच्छमहाकच्छादयो राजन्यतापसाः । गङ्गाया दक्षिणे कूले, मृगा इव वनेचराः ।। २३४ ॥ वल्कलाच्छादनधराः, पादपा इव जङ्गमाः । आहारमुद्वान्तमिवाऽस्पृशन्तो गृहमेधिनाम् ।। २३५ ।। चतुर्थषष्ठादितपःपरिशोषितधातुकम् । धारयन्तः कृशतरं, रिक्तभस्त्रोपमं वपुः ।। २३६ ॥ भुआनाः पारणाहेऽपि, शीर्णपर्णफलादिकम् । हृदये भगवत्पादान्, ध्यायन्तोऽस्थुरनन्यगाः ।। २३७ ।। आर्यानार्येषु मौनेन, विहरन् भगवानपि । संवत्सरं निराहारश्चिन्तयामासिवानिदम् ।। २३८ ॥ प्रदीपा इव तलेन, पादपा इव वारिणा । आहारेणैव वर्तन्ते, शरीराणि शरीरिणाम् ।। २३९ ।। द्विचत्वारिंशता भिक्षादोषैर्भृशमदूषितः । स तु वृत्त्या माधुकर्या, काले ग्राह्योऽनगारिणा ।। २४० ।। अद्याऽपि यदि वाऽऽहारमतिक्रान्तदिनेष्विव । न गृह्णाम्यभिग्रहाय, किन्तूत्तिष्ठे पुनर्यदि ।। २४१ ।। अमी सहस्राश्चत्वार, इवाऽभोजनपीडिताः । तदा भङ्ग ग्रहीष्यन्ति, भाविनो मुनयोऽपरे ।। २४२ ।। स्वामी मनसिकृत्यैवं, भिक्षार्थं चलितस्ततः । पुरं गजपुरं प्राप, पुरमण्डलमण्डनम् ।। २४३ ।। तस्मिन् पुरे बाहुबलिसूनोः सोमप्रभस्य तु । राज्ञः कुमारेण तदा, स्वप्ने श्रेयांसभूभुजा ।। २४४ ।।
SASSASARABASAHASRARSHAN
ऋषभप्रभोः प्रथमा भिक्षा, श्रेयांसस्य प्रथम दानं च ।
|| १५०॥