________________
त्रिषष्टिशलाकापुरुषचरिते
प्रथमं पर्व तृतीयः सर्गः श्रीऋषभस्वामिचरितम् ।
।। १४९ ।।
मा विद्यादुर्मदा विद्याधराः कार्युः स्म दुर्नयम् । धरणेन्द्रस्ततस्तेषां, मर्यादामेवमादिशत् ।। २१३ ॥ जिनानां जिनचैत्यानां, तथा चरमवर्मणाम् । प्रतिमाप्रतिपन्नानां, सर्वेषां चाऽनगारिणाम् ।। २१४ ।। पराभवं लङ्घनं च, ये करिष्यन्ति दुर्मदाः । विद्यास्त्यक्ष्यन्ति तान् सद्यः, कृतालस्यानिव श्रियः । २१५ । ।। युग्मम्।। सात्मस्त्रीकं हनिष्यन्ति, ये नरयेऽपि च स्त्रियम् । रमयिष्यन्त्यनिच्छन्ती, विद्यास्त्यक्ष्यन्ति तान् क्षणात् । २१६ । उच्चैरुदीर्य मर्यादामेवमाचन्द्रकालिकीम् । अलीलिखदहिस्वामी, रत्नभित्तिप्रशस्तिषु ।। २१७ ।। विद्याधराधिराजत्वे, सप्रसादं निवेश्य तौ । विरचय्य व्यवस्थां च, धरणेन्द्रस्तिरोदधे ।। २१८ ।। गौरीणां नाम्ना गौरेया, मनूनां मनुपूर्वकाः । गान्धारीणां तु गान्धारा, मानवीनां तु मानवाः ।। २१९ ।। कौशिकीनां तु विद्यानां, कैशिकीपूर्वका मताः । विद्यानां भूमितुण्डानां, कीर्तिता भूमितुण्डकाः ।। २२० । विद्यानां मूलवीर्याणां, विश्रुता मूलवीर्यकाः । शङ्खकानां शङ्खकास्तु, पाण्डुकीनां तु पाण्डुकाः ।। २२१ ।।। कालीनां कालिकेयास्तु, श्वपाकीनां श्वपाककाः । मातङ्गीनां तु मातङ्गाः, पार्वतीनां तु पार्वताः ।। २२२ ॥ वंशालयानां विद्यानां, ख्याता वंशालया इति । विद्यानां पांसुमूलानां, प्रथिताः पांसुमूलकाः ।। २२३ ।। विद्यानां वृक्षमूलानां, विख्याता वृक्षमूलकाः । स्वस्वविद्याख्यया ख्याता, निकायाः षोडशाऽभवन् ।। २२४ ।। | एवं विद्याधराणां तु, निकाया नमिभूभुजा । आदीयन्त विभज्याऽष्टावष्टौ विनमिना पुनः ।। २२५ ।। स्वके स्वके निकाये च, स्वकाय इव भक्तितः । स्थापयाञ्चक्रिरे ताभ्यां, विद्याधिपतिदेवताः ।। २२६ ।। तौ नित्यमृषभस्वामिमूर्तिपूजाकृतक्षणौ । धर्मानाबाधया भोगान्, बुभुजाते सुराविव ।। २२७ ।। द्वीपान्तजगतीजालकटकेषु कदाऽपि तौ । रेमाते सह कान्ताभिः, शक्रेशानाविवाऽपरौ ।। २२८ ॥
वैतान्ये विद्याधराणां नगराणि ।
|| १४९॥