________________
त्रिषष्टिशलाका
पुरुषचरिते
प्रथमं पर्व तृतीयः सर्गः श्रीऋषभस्वामिचरितम् ।
।। १४८ ।।
पुर्यर्जुनी वारुणी च, वैरिसंहारिणी तथा । कैलासवारुणी विद्युद्दीप्तं किलिकिलं तथा ।। १९७ ॥ चारुचूडामणिश्चैव, चन्द्रभाभूषणं तथा । वंशवत् कुसुमचूलं, हंसगर्भ च मेघकम् ।। १९८ ।। शङ्करं लक्ष्मिहवें च, चामरं विमलं तथा । असुमत्कृतं च शिवमन्दिरं वसुमत्यपि ।। १९९ ।। सर्वसिद्धस्तुतं चैव, सर्वशत्रुअयं तथा । केतुमालाङ्कनगरमिन्द्रकान्ताभिधं ततः ।। २०० ।। महानन्दनाशोकं च, वीतशोकं विशोककम् । सुखालोका-5लकतिलक-नभस्तिलकान्यपि ।। २०१ ।। मन्दिरं कुमुदकुन्दं, ततो गगनवल्लभम् । युवतीतिलकसंज्ञभवनीतिलकं ततः ।। २०२ ।। सगन्धर्वं मुक्तहारं, ततोऽनिमिषविष्टपम् । अग्निज्वाला गुरुज्वाला, श्रीनिकेतपुरं तथा ।। २०३ ।। ततो जयश्रीनिवासं, रत्नकुलिशपत्तनम् । वसिष्ठाश्रयं द्रविणजयं चाऽथ सभद्रकम् ।। २०४ ।। भद्राशयपुरं तस्मात्, फेनशिखरमप्यथ । गोक्षीरवरशिखराभिधानं तदनन्तरम् ।। २०५ ।। वैर्यक्षोभशिखरकं, गिरिशिखरकं ततः । धरणीवारणीसंज्ञं, सुदर्शनपुरं ततः ।। २०६ ।। दुर्ग दुर्धर-माहेन्द्रे, विजयं च सुगन्धिनी । सुरतनागरपुरं, ततो रत्नपुराभिधम् ।।२०७ ।। एषां प्रधानभूतं तु, पुरं गगनवल्लभम् । विनमिः स्वयमध्यष्ठाद्, धरणेन्द्रमधिष्ठितः ।। २०८ ।। ते च विद्याधरण्यौ, शुशुभाते महर्द्धिके । ऊर्ध्वस्थव्यन्तरश्रेण्याविवाऽधःप्रतिबिम्बिते ।।२०९ ।। ग्रामाननेकशः कृत्वा, तौ शाखानगराणि च । स्थापयामासतुः स्थानौचित्याञ्जनपदानपि ।।२१०॥ यस्माद् यस्माञ्जनपदान्नीत्वा तत्राऽऽहिता नराः । तत्संज्ञयैव तत्राऽपि, ताभ्यां जनपदाः कृताः ।। २११ । तेष्वथो नमि-विनमी, पुरेष्वधिसमं विभुम् । स्थापयामासतुर्नाभिनन्दनं मनसीव तौ ।। २१२ ।।
वैताब्ये विद्याधराणा नगराणि ।
|| १४८॥