________________
त्रिषष्टिशलाकापुरुषचरिते
प्रथमं पर्व तृतीयः सर्गः श्रीऋषभस्वामिचरितम् ।
।। १४७ ।।
नानारत्नमयान्युश्चैर्लीलास्थानानि नाकिनाम् । नवग्रैवेयकाणीव, नवकूटानि बिभ्रतम् ।। १८२ ।। ऊर्ध्वं योजनविंशत्या, दक्षिणोत्तरपार्श्वयोः । दधानं व्यन्तरावासश्रेण्यौ निवसने इव ।। १८३ ।। आमूलचूलिकं चारुकलधौतशिलामयम् । पृथिव्यां पादकटकमिवैकं विच्युतं दिवः ।। १८४ ।। मरुदान्दोलितोद्दामशाखिशाखाभुजैर्मुहुः । आह्वयन्तमिवाऽऽरात् तौ, वैताढ्यनिरिमापतुः ।। १८५ ।।
॥दशभिः कुलकम् ।। क्ष्मातलाद् दशयोजन्या, उपरिष्टान्नमिर्नृपः । तत्राऽद्रौ दक्षिणश्रेण्यां, चक्रे पञ्चाशतं पुरीः ।। १८६ ।। प्राक्किन्नरनरगीतं, बहुकेतुपुरं ततः । पुण्डरीकं हरित्केतु, सेतुकेतुपुरं तथा ।। १८७ ।। सारिकेतुनगरं, श्रीबहुश्रीगृहं तथा । लोहार्गला-ऽरिञ्जये च, स्वर्गलीलपुरं तथा ।। १८८ ।। वजार्गलपुरं वज्रविमोकनगरं तथा । तथा महीसार-पुरञ्जये सुकृतमुख्यपि ।। १८९ ।। चतुर्मुखी बहुमुखी, रता च विरताऽपि च । आखण्डलपुरं चाऽपि, विलासयोनिपत्तनम् ।। १९० ।। अपराजितं काञ्ची-दामाख्ये सुविनयं नभः । क्षेमकरंसह-चिह्नपुरं कुसुमपुर्यपि ।। १९१ ।। सञ्जयन्ती शक्रपुर, जयन्ती वैजयन्त्यपि । विजया क्षेमङ्करं च, चन्द्रभासपुरं तथा ।। १९२ ।। रविभासपुरं सप्तभूतलावासमेव च । सुविचित्रं महाप्नं च, चित्रकूटं त्रिकुटकम् ।। १९३ ।। वैश्रवणकूट-शशिपुरे रविपुरं तथा । विमुखी-वाहिन्यौ सुमुखी नित्योद्दयोतिनी तथा ।। १९४ ।। श्रीरथनूपुरचक्रवालं तु नगरोत्तमम् । एषां पुराणां मध्यस्थमध्युवास स्वयं नमिः ।। १९५ ।। तथैव चोत्तरश्रेण्यां, विनमिः पर्यसूत्रयत् । षष्टि पुराणि सद्योऽपि, नागराजस्य शासनात् ।। १९६ ।।
वैताश्यविद्याधराणा नगराणि ।
|| १४७||