________________
प्रथमं पर्व
त्रिषष्टिशलाकापुरुषचरिते
तृतीयः सर्गः श्रीऋषभस्वामिचरितम् ।
।। १४६॥
अमुमेव जगन्नाथं, सेवमानः शरीरभाक् । प्राप्नोत्यपुनरावृत्ति, सदानन्दमयं पदम् ।। १६६ ।। इह त्रिभुवनाधीशः, सिद्धरुपः परत्र च । असाविव भवेद् देही, स्वामिनोऽस्यैव सेवया ।। १६७ ।। दासोऽहं स्वामिनोऽमुष्य, युवामपि च सेवको । तत्सेवायाः फलं विद्याधरैश्वर्यं ददामि वाम् ।। १६८ ॥ स्वामिसेवाप्तमेवैतद्, बुध्येथां हन्त! माऽन्यथा । उड्यातोऽरुणजन्माऽपि, सूर्यजन्मैव यद् भुवि ।। १६९ ।। सम्बोध्यैवं ददौ गौरीप्रज्ञप्तीप्रमुखां तयोः । अष्टचत्वारिंशद्विद्यासहस्री पाठसिद्धिदाम् ।। १७० ।। आदिदेश च वैताठ्ये, गत्वा श्रेणिद्वये युवाम् । नगराणि परिष्ठाप्य, कुर्वाथां राज्यमक्षयम् ।। १७१ ।। नत्वाऽर्हन्तं तौ विमानं, पुष्पकाख्यं विकृत्य च । आरुह्य च प्रचलितौ, पन्नगस्वामिना समम् ।। १७२ ।। स्वामिसेवातरुफलभूतां तां सम्पदं नवाम् । गत्वा पित्रोः कच्छमहाकच्छयोस्तावशंसताम् ।। १७३ ।। ज्ञापयामासतुः स्वर्द्धि, गत्वाऽयोध्यापतेश्च तौ । मानिनां मानसिद्धिर्हि, सफला स्थानदर्शिता ।। १७४ ।। तत्र स्वजनमादाय, सर्व परिजनं च तौ । विमानवरमारोह्य, प्रति वैताढ्यमीयतुः ।। १७५ ।। प्रान्तयोलवणाम्भोधिवीचीनिचयचुम्बितम् । पूर्वापरदिशोरन्तर्मानदण्डमिव स्थितम् ।। १७६ ।। आघाटभूतं भरतदक्षिणोत्तरभागयोः । पञ्चाशतं योजनानि, दक्षिणोत्तरयोः पृथुम् ।। १७७ ॥ षड् योजनानि सक्रोशान्यवगाढं महीतले । उत्सेधं धारयन्तं च, पञ्चविंशतियोजनीम् ।। १७८ ।। प्रसारिताभ्यां बाहुभ्यामिव दूराद् हिमाद्रिणा । गङ्गासिन्धुस्रवन्तीभ्यां, समाश्लिष्टं समन्ततः ।। १७९ ॥ भरतार्धश्रियो लीलाविश्रामसदने इव । खण्डप्रपाता-तमिस्राऽभिधाने दधतं गुहे ॥ १८० ।। सिद्धायतनकूटेन, शाश्वतप्रतिमाजुषा । बिभ्राणमद्भुतां शोभा, सुमेरुमिव चूलया ॥ १८१ ।।
वैताळ्यगिरिः।
॥ १४६||