________________
ॐ2%
प्रथम पर्व
त्रिषष्टिशलाकापुरुषचरिते
तृतीयः
सर्गः श्रीऋषभस्वामिचरितम् ।
॥ १४५ ।।
भृत्यावावामसौ भर्ता, क्वचिदप्यादिशत् स्वयम् । राज्यं विभज्य सर्वेभ्यः, स्वपुत्रेभ्यो ददावथ ।। १५१ ।। अपि प्रदत्तसर्वस्वो, दाताऽसौ राज्यमावयोः । अस्ति नाऽस्तीति का चिन्ता ?, कार्या सेवैव सेवकैः ।। १५२ याचेथां भरतं गत्वा, स्वामिवत् स्वामिभूरपि । इत्युक्तौ धरणेन्द्रेण, पुनस्तावेवमूचतुः ।। १५३ ।। विश्वस्वामिनमाप्याऽमुं, कुर्वः स्वाम्यन्तरं न हि । कल्पपादपमासाय, कः करीरं निषेवते ? || १५४ ।। आवां याचावहे नाऽन्यं, विहाय परमेश्वरम् । पयोमुचं विमुच्याऽन्यं, याचते चातकोऽपि किम् ? ।। १५५ ।। स्वस्त्यस्तु भरतादिभ्यस्तव किं चिन्तयाऽऽनया? । स्वामिनोऽस्माद् यद् भवति, तद् भवत्वपरेण किम् ? ।। १५६ तदुक्तिमुदितोऽवादीदथेदं पन्नगेश्वरः । पातालपतिरेषोऽस्मि, स्वामिनोऽस्यैव किङ्करः ।। १५७ ।। महाभागौ महासत्त्वौ, स्वाम्यसावेव नाऽपरः । सेवनीय इति दृढा, प्रतिज्ञा साधु साधु वाम् ।। १५८ ।। भुवनस्वामिनोऽमुष्य, सेवया राज्यसम्पदः । पुमांसमुपसर्पन्ति, पाशाकृष्टा इव द्रुतम् ।। १५९ ।। सेवया चाऽस्य वैतादयगिरौ विद्याधरेन्द्रता । नितान्तसुलभैवेह, प्रालम्बफलवन्नृणाम् ।। १६० ।। सेवामात्रेण चाऽमुष्य, भवनाधिपतिश्रियः । अयत्नप्राप्यतां यान्ति, पादाधःस्थनिधानवत् ।। १६१ ।। अमुं च सेवमानानां, पुंसामुपनमत्यलम् । वशंवदा व्यन्तरेन्द्रश्रीः कार्मणवशादिव ।।१६२ ।। अस्यैव सेवकं ज्योतिष्पतिश्रीरपि सत्वरम् । स्वयं वृणीते सुभगं, स्वयंवरवधूरिव ।। १६३ ।। भवन्त्यस्यैव सेवातः, पौरन्दर्योऽपि सम्पदः । वसन्तादेव जायन्ते, विचित्राः कुसुमर्द्धयः ।। १६४ ।। अस्यैव सेवनादाशु, लभन्ते दुर्लभामपि । अहमिन्द्रश्रियं मुक्तेरिव यामि कनीयसीम् ।। १६५ ॥ १ भगिनीम् ।
प्रभुसमीपे नमि-विनम्यो राज्यमार्गणं, धरणेन्द्रा गमनं च।
|| १४५॥