________________
त्रिषष्टि
शलाका
पुरुषचरिते
11988 11
आवां प्रेष्य प्रेषणेन, दूरदेशान्तरं विभो ! । पुत्रेभ्यो भरतादिभ्यस्त्वया दत्ता विभज्य भूः ।। १३६ ।। मही गोष्पदमात्राऽपि त्वयाऽऽवाभ्यां न किं ददे ? । इदानीमपि तद्देहि, विश्वनाथ ! प्रसादतः ।। १३७ ।। दोषः किमावयोः कोऽपि, देवदेवेन वीक्षितः ? । यद् दत्से नोत्तरमपि दूरेऽन्यद् देयमस्तु तत् ॥ १३८ ॥ प्रभुर्न किञ्चित् प्रत्यूचे, वदन्तावपि तौ तदा । निर्ममा हि न लिप्यन्ते, कस्याऽचैहिकचिन्तया ।। १३९ ।। न ब्रूते यद्यपि स्वामी, तथाऽपि गतिरेष नौ । इति निश्चित्य तौ देवं प्रवृत्तावुपसेवितुम् ।। १४० ।। जल जलाशयान्नित्यमानीय नलिनीदलैः । ववृषुः स्वामिनोऽभ्यर्णे, रजः प्रशमहेतवे ।। १४१ ॥ तावुज्झाञ्चक्रतुर्धर्मचक्रिणः पुरतः प्रगे । पुष्पप्रकरमामोदमाद्यन्मधुकरोत्करम् ।। १४२ ।। कृष्टासी च सिषेवाते, स्वामिनं पारिपार्श्विकौ । अहर्निशं मेरुगिरिं सूर्याचन्द्रमसाविव ॥ १४३ ॥ त्रिसन्ध्यं च प्रणम्यैवं ययाचाते कृताञ्जली । आवयोर्नाऽपरः स्वामी, स्वामिन्! राज्यप्रदो भव ।। १४४ ॥ अन्येद्युर्धरणो नागकुमाराणामधीश्वरः । श्राद्धः समाययौ तत्र, स्वामिपादान् विवन्दिषुः ।। १४५ ।। स्वामिनं सेवमानौ तौ याचमानौ श्रियं ततः । बालाविव ऋजू नागराजः साश्चर्यमैक्षत ।। १४६ ।। स तौ जगाद पीयूषस्यन्दसोदरया गिरा । कौ युवां ? किं च याचेथे, दृढं विरचिताग्रहौ ? ।। १४७ ।। संवत्सरं जगत्स्वामी, महादानं किमीप्सितम् । प्रददावनवच्छिन्नं, तदानीं क्व गतौ युवाम् ? ।। १४८ ।। वर्त्तते सम्प्रति स्वामी, निर्ममो निष्परिग्रहः । रोषतोषविनिर्मुक्तो, निराकाङ्क्षो वपुष्यपि ।। १४९ ।। स्वामिनः सेवकः कश्चिदेषोऽपीति सगौरवम् । धरणं पन्नगाधीशं प्रत्यूचतुरुभावपि ।। १५० ।
प्रथम पर्व
तृतीयः
सर्ग.
श्री ऋषभस्वामिचरितम् ।
प्रभुसमीपे
नमि विनम्यो राज्यमार्गण धरणेन्द्रा
गमन च ।
॥ १४४ ॥