________________
N
त्रिषष्टिशलाकापुरुषचरिते
प्रथम पर्व तनीयः मर्गः | श्रीऋषभस्वामिदारतम् ।
।। १४३ ।।
अग्रेऽपि स्वामिनाऽऽदिष्टमेव नित्यमकृष्वहि । अधुना कृतमौनस्तु, नाऽऽदिशत्येष किञ्चन ।। १२० ।। वित्थ यूयं यथा नैव, विद्वो नाऽऽवां तथैव हि । गतिः समाना सर्वेषां, ब्रूताऽऽवां किमु कुर्वह ? ।।१२१ ॥ सम्भूया55लोच्य सर्वेऽपि, गङ्गातीरवनानि ते । भेजुर्बुभुजिरे स्वैरं, कन्दमूलफलाद्यथ ।।१२२ ।। प्रावर्त्तन्त ततः कालात्, तापसा वनवासिनः । जटाधराः कन्दफलाद्याहारा इह भूतले ।। १२३ ।। अथ कच्छमहाकच्छतनयौ विनयान्वितौ । स्वाम्यादेशाद् दूरदेशान्तराणि गतपूर्विणौ ।। १२४ ।। आयान्तौ नमि-विनमिनामानौ तद्वनाध्वना । अपश्यतां स्वपितरावित्यचिन्तयतां च तौ ।। १२५ ।। नाथे वृषभनाथेऽपि, किमनाथाविवेदृशीम् । अवस्थां प्रतिपेदाते, पितरावावयोरिमौ ? ।। १२६ ॥ क्व तच्चीनांशुकमिदं, किरातार्ह क्व वल्कलम् ? । क्व सोऽङ्गरागो वपुषि?, भूरजः क्व पशूचितम् ? ॥१२७ ।। क्व माल्यगर्भो धम्मिल्लः?, क्व जटा वटवृक्षवत् ? । क्व गजारोहणं? क्वैष, पादचारः पदातिवत् ? ।। १२८ ॥ एवं विचिन्तयन्तौ तौ, प्रणम्य पितरौ तदा । पप्रच्छतुः कच्छमहाकच्छावप्येवमूचतुः ।। १२९ ।। त्यक्त्वा राज्यं जगन्नाथो, भगवानृषभध्वजः । भुवं विभज्य भरतादिभ्यो दत्त्वाऽग्रहीद् व्रतम् ॥ १३० ॥ स्वामिना सममस्माभिरशेष रभसावशात् । तदा तद् व्रतमारेभे, हस्तिनेवेक्षुभक्षणम् ।। १३१ ॥ क्षुधापिपासाशीतोष्णप्रभृतिक्लेशपीडितैः । तद् व्रतं मुमुचेऽस्माभिर्यस्ता धूः कसरैरिव ।। १३२ ।। यद्यपि स्वामिनो गत्या, वयं गन्तुं न शक्नुमः । तथाऽपि मुक्त्वा गार्हस्थ्य, वसामोऽत्र तपोवने ॥१३३ ।। स्वामिनो भूसंविभागमावामप्यर्थयावहे । इत्युक्त्वा नमि-विनमी, स्वामिपादावुपेयतुः ।। १३४ ।। निःसङ्ग इत्यजानन्तौ, प्रभुं प्रतिमया स्थितम् । प्रणम्यैवं विज्ञपयाम्बभूवतुरुभावपि ।। १३५ ।।
तापसाना मुत्पत्ति ।
PROCRACKAGAMANAAKAASA
।। १४३॥