________________
त्रिषष्टि
शलाका
पुरुषचरिते
।। १४२ ।।
किम्पाकानीव नाऽत्त्येष, फलानि मधुराण्यपि । न स्वादून्यपि पिबति, क्षाराणीव पयांसि च ॥ १०४ ॥ परिकर्मानपेक्षश्च, न स्नाति न विलिम्पति । वस्त्रालङ्कारमाल्यानि, नोपादत्ते च भारवत् ।। १०५ ॥ आलिङ्ग्यते शैल इव, वातोद्धूताध्वधूलिभिः । नितान्तं सहते मूर्ध्नि, ललाटंतपमातपम् ॥ १०६ ॥ शयनादिविहीनोऽपि, नाऽऽयासमनुगच्छति । न परिक्लिश्यते शीतोष्णाभ्यां गिरिवरेभवत् ।। १०७ ।। न हि क्षुधां गणयति, न जानाति तृषामपि । सवैरः क्षत्रिय इव, निद्रामपि न सेवते ।। १०८ ।। अस्माननुचरीभूतान्, कृतागस इवाऽधुना । न प्रीणयति दृष्ट्याऽपि सङ्कथायास्तु का कथा ? ।। १०९ ॥ अपि पुत्रकलत्रादिपरिग्रहपराङ्मुखः । न जानीमः किमपि यच्चित्ते चिन्तयति प्रभुः ।। ११० ।। अथ कच्छमहाकच्छौ, भर्त्तुरभ्यर्णसेवकौ । आत्मवृन्दपुरोभूतावित्यूचाते तपस्विभिः ।। १११ ।। क्वैष स्वामी क्षुद्विजयी ? क्व वयं चाऽन्नकीटका: ? । क्व वा जितपिपासोऽयं ?, क्व वयं वारिदर्दुराः ॥ ११ क्व चाऽयमातपजयी ?, क्व च्खयामत्कुणा वयम् ? । क्व शीतापरिभूतोऽयं ?, क्व शीतकपयो वयम् ? ।। ११३ क्व च निद्रादरिद्रोऽयं ?, क्व निद्राजगरा वयम् ? । क्वाऽयं नित्यमनासीनो ?, वयं क्वाऽऽसनपङ्गचः ? ।। ११४ ।। व्रतेऽनुगमनं भर्त्तुस्तदस्माभिः प्रचक्रमे । उदन्वलङ्घनविधौ, काकैरिव गरुत्मतः ।। ११५ ।। किं निजान्येव राज्यानि, गृह्णीमो जीविकाकृते ? । किन्तु तानि गृहितानि, भरतेन क्व गम्यताम् ? ॥ ११६ ॥ किं वा व्रजामो भरतमेव जीवनहेतवे ? । अस्माकं स्वामिनं हित्वा गतानां तत एव भीः ।। ११७ ।। तदार्यौ ! कार्यमूढानां किं कार्यं ? ब्रूतमद्य नः । अग्रेऽपि नित्यमासन्नौ, भावाभिज्ञौ युवां विभोः ।। ११८ ॥ तावप्येवं बभाषाते, स्वयम्भूरमणाम्बुधेः । आसाद्यते यदि स्ताघो, भावोऽपि स्वामिनस्तदा ।। ११९ ।।
प्रथमं पर्व
तृतीयः
सर्गः श्रीऋषभस्वामिचरितम् ।
कच्छमहा
कच्छादिमु नीनां चिन्ता |
॥ १४२ ॥