________________
त्रिषष्टिशलाका
प्रथमं पर्व तृतीयः
पुरुषचरिते
सनः
श्रीऋषभस्वामिचरितम् ।
॥१४१ ॥
महाव्रतानां पञ्चानामिव पञ्चाऽपि सोदराः । बिभ्रते समितीस्तुभ्यमादिनाथ ! नमो नमः ।। ८९ ।। आत्मारामैकमनसे, वचःसंवृतिशालिने । सर्वचेष्टानिवृत्ताय, नमस्तुभ्यं त्रिगुप्तये ।। ९० ॥ इति नाथमभिष्टुत्य, यथास्थानं ययुस्तदा । जन्माभिषेकवन्नन्दीश्वरमध्येन नाकिनः ।। ९१ ॥ प्रणम्य नाथं भरतबाहुबल्यादयोऽपि ते । जग्मुर्निजनिजस्थानं, कथञ्चिदमरा इव ।। ९२ ।। अनुप्रव्रजितैः कच्छमहाकच्छादिभिर्नृपैः । अनुयातः प्रभुौनी, मां विहर्तुं प्रचक्रमे ।। ९३ ॥ भगवान् पारणाहेऽपि, भिक्षां न प्राप कुत्रचित् । भिक्षादानानभिज्ञो हि, तदैकान्तऋजुर्जनः ।। ९४ ॥ केऽपि वेगपराभूतोच्चैःश्रवस्कांस्तुरङ्गमान् । शौर्यनिर्जितदिग्नागानपरे नागकुञ्जरान् ।।९५ ।। रुपलावण्यविजिताप्सरसः केऽपि कन्यकाः । विद्युद्विभ्रमधारीणि, केचिदाभरणानि तु ।। ९६ ।। नानावर्णानि सन्ध्याभ्राणीव वासांसि केचन । माल्यदामानि मन्दारदामस्पर्धीनि केऽपि च ।। ९७ ।। केचित् काञ्चनराशि च, मेरुशृङ्गसहोदरम् । रोहणाचलचूलाभ, रत्नकूटमथाऽपरे ।। ९८ ॥ स्वामिने ढोकयामासुर्लोका भिक्षार्थमीयुषे । राजानमेव नाथं स्म, जानते ते हि पूर्ववत् ॥ ९९ ॥
॥ पञ्चभिः कुलकम् ।। भिक्षामलभमानोऽपि, स्वाम्यदीनमनाः सदा । विहरन जङ्गमं तीर्थमिव पृथ्वीमपावयत् ।। १०० ।। सप्तधातुविनाभूतशरीर इव सुस्थितः । भगवान् क्षुत्पिपासादीनधिसेहे परीषहान् ।। १०१ ।। अनुयान्तः स्वामिनं ते, पोता इव समीरणम् । तथैव विहरन्ति स्म, राजानो दीक्षिताः स्वयम् ।। १०२ ॥ अथ क्षुदादिभिः क्लान्तास्तत्त्वज्ञानविवर्जिताः । स्वबुद्ध्यनुगुणं दध्युस्ते राजन्यास्तपस्विनः ।। १०३ ।।
प्रोविहारः ।
|| १४१ ॥