________________
त्रिषष्टिशलाकापुरुषचरिते
प्रथमं पर्व तृतीयः सर्गः श्रीऋषम| स्वामिचरेतम् ।
।। १४०॥
स्वामिदीक्षोत्सवेनाऽऽसीन्नारकाणामपि क्षणम् । शरदातपतप्तानामिवाऽभ्रच्छायया सुखम् ।।७५ ॥ ज्ञानं प्रभोर्मर्यक्षेत्रमनोद्रव्यप्रकाशकम् । मनःपर्ययमुत्पेदे, दीक्षासङ्केतभागिव ॥ ७६ ।। वार्यमाणाः सुहृद्वर्ग, रुध्यमानाश्च बन्धुभिः । निषिध्यमाना भरतेश्वरेणाऽपि मुहुर्मुहुः ।। ७७ ।। स्मरन्तः स्वामिनः पूर्वप्रसादमतिशायिनम् । तत्पादपद्मविरहस्याऽसहाः षट्पदा इव ।। ७८ ।। हित्वा पुत्रकलत्रादि, राज्यं च तृणलीलया । या गतिः स्वामिनोऽस्माकमपि सैवेति निश्चयात् ।। ७९ ॥ नृपाः कच्छमहाकच्छादयः आददिरे मुदा । दीक्षां सहस्राश्चत्वारो भृत्यानामेष हि क्रमः ।। ८०॥
॥चतुर्भिः कलापकम् ।। आदिनाथं प्रणम्याऽथ, शचीनाथादयः सुराः । एवं विरचयामासू, रचिताञ्जलयः स्तुतिम् ।। ८१ ।। गुणांस्तव यथावस्थान्, वयं वक्तुमनीश्वराः । स्तुमस्तथाऽपि प्रज्ञा हि, त्वत्प्रभावाद् भृशायते ।। ८२ ।। त्रसस्थावरजन्तूनां, हिंसायाः परिहारतः । स्वामिन्नभयदानैकसत्रिणे भवते नमः ।। ८३ ।। नमस्तुभ्यं मृषावादपरित्यागेन सर्वथा । पथ्यतथ्यप्रियवचःसुधारसपयोधये ।। ८४ ।। भगवनन्नदत्तादानप्रत्याख्यानखिलाध्वनि । प्रथमायाऽध्वनीनाय, नमस्तुभ्यं जगत्पते ।।८५।। अखण्डितब्रह्मचर्यमहातेजोविवस्वते । भगवन् ! मन्मथध्वान्तमथनाय नमोस्तु ते ।। ८६ ।। सर्वमेकपदे नाथ !, पृथिव्यादिपरिग्रहम् । पलालवत् त्यक्तवते, तुभ्यं मुक्त्यात्मने नमः ।। ८७ ।। तुभ्यं नमः पञ्चमहाव्रतभारककुद्यते । संसारसिन्धुतरणकर्मठाय महात्मने ॥ ८८ ॥ मगः । - / भवतीनि भशायन । पथिकन्य।
का मग
दीक्षा।
।। १४०॥