________________
त्रिषष्टिशलाका
पुरुषचरिते
।। १३९ ।।
विमानमिव सर्वार्थसिद्धं प्राक्तनजन्मनि । नाम्ना सिद्धार्थमुद्यानमाससाद जगत्पतिः ।। ६१ ।। तस्माच्च शिबिकारत्नात्, संसारादिव निर्ममः । समुत्ततार नाभेयस्तत्राऽशोकतरोस्तले ॥। ६२ ।। तानि वस्त्राणि माल्यानि, भूषणानि च नाभिभूः । उज्झाञ्चकार सपदि, कषायानिव सर्वतः ।। ६३ ॥ कोमलं धवलं सूक्ष्मं, व्यूतं चन्द्रकरैरिव । देवदूष्यं देवराजः, स्कन्धदेशे न्यधाद् विभोः ।। ६४ ।। तदा च चैत्रेबहुलाष्टम्यां चन्द्रमसि श्रिते । नक्षत्रमुत्तराषाढामह्नो भागेऽथ पश्चिमे ।। ६५ ।। भवज्जयजयारावकोलाहलमिषाद् भृशम् । उद्गिरद्भिर्मुदमिव, वीक्ष्यमाणो नरामरैः ।। ६६ । उच्चखान चतसृभिर्मुष्टिभिः शिरसः कचान् । चतसृभ्यो दिग्भ्यः शेषामिव दातुमनाः प्रभुः ।। ६७ ।। ।त्रिभिर्विशेषकम् ॥ प्रतीच्छति स्म सौधर्माधिपतिः कुन्तलान् प्रभोः । वस्त्राञ्चले वर्णान्तरतन्तुमण्डनकारिणः ।। ६८ ।। मुष्टिना पञ्चमेनाऽथ, शेषान् केशान् जगत्पतिः । समुच्चिखनिषन्नेवं ययाचे नमुचिद्विषा ।। ६९ ।। नाथ ! त्वदंसयोः स्वर्णरुचोर्मरकतोपमा । वातानीता विभात्येषा, तदास्तां केशवल्लरी ॥ ७० ॥ तथैव धारयामास, तामीशः केशवल्लरीम् । याञ्चामेकान्तभक्तानां स्वामिनः खण्डयन्ति न ॥ ७१ ॥ सौधर्मेशः क्षीरसिन्धौ, केशान् क्षिप्त्वाऽभ्युपेत्य च । रङ्गाचार्य इवारक्षत्, तुमुलं मुष्टिसंज्ञया ।। ७२ ।। कृतषष्ठतपः कर्मा, कृतसिद्धनमस्कृतिः । देवासुरमनुष्याणां समक्षमथ नाभिभूः ।। ७३ ।। सावद्ययोगं सकलं, प्रत्याख्यामीत्युदीरयन् । मोक्षाध्वनो रथमिव, चारित्रं प्रत्यपद्यत ।। ७४ ।। || युग्मम् ।।
१ चैत्रकृष्णाष्टम्याम् । २ समुत्खनितुमिच्छन् । ३ इन्द्रेण ।
प्रथमं पर्व तृतीय.
सर्ग.
श्रीऋषभस्वामि
चरितम् ।
ऋषभप्रभो - दीक्षा
महोत्सव |
।। १३९ ।।