________________
त्रिषष्टिशलाकापुरुषचरिते
| प्रथम पर्व तृतीयः
सर्गः
श्रीऋषभस्वामिचरितम् ।
॥ १३८ ॥
शुभकौसुम्भवसना, वर्मवेश्मकुलाङ्गनाः । पूर्णपात्रान् दधुः काश्चित्, सेन्दुसन्ध्यासहोदराः ।। ४५ ॥ काश्चिदप्यञ्चलान पाणिपश्चिपललोचनाः । चामराणीव चलयामासुरालोकने प्रभोः ।। ४६ ।। काश्चिदप्यभि नाभेयं, नार्यो लाजान निचिक्षिपुः । आत्मनः पुण्यबीजानि, वपन्त्य इव निर्भरम् ।। ४७ ।। चिरं जीव चिरं नन्देत्याद्याशीर्वचनानि च । काश्चिज्जगुर्निजकुलसुवासिन्य इवोच्चकैः ।। ४८ ।। निश्चलाक्ष्यश्चलाक्ष्योऽपि, मङक्षुगा मन्दगा अपि । प्रभुं पश्यन्त्योऽनुयान्त्यश्चाऽभूवन् पुरयोषितः ।। ४९ ।। नभस्यथ समापेतुरपि देवाश्चतुर्विधाः । महाविमानैः कुर्वाणा, एकच्छायं महीतलम् ।। ५० ।। मदाम्भोवर्षिभिः केचित्, कुञ्जरैर्निर्जरोत्तमाः । आपतन्तो विदधिरे, दिवं मेघमयीमिव ।। ५१ ॥ अपारगगनाम्भोधेस्तरण्डैस्तुरगोत्तमैः । कशानौदण्डसहिता, आपतन् पतिमीक्षितुम् ।। ५२ ।। मूर्तिमद्भिः पवमानैरिवाऽतिशयिरंहसा । स्यन्दनैर्युसदः केचिदासदन्नाभिनन्दनम् ।। ५३ ।। अन्योऽन्यं वाहनक्रीडाप्रतिज्ञातपणा इव । प्रतीक्षाञ्चक्रिरे मित्रमपि न त्रिदिवौकसः ॥ ५४ ।। स्वाम्यसौ स्वाम्यसावेवं, कथयन्तो मिथः सुराः । वाहनानि स्थिरीचक्रुः, प्राप्तग्रामा इवाऽध्वगाः ।। ५५ ॥ विमानहम्यैः करिभिस्तुरगैः स्यन्दनैरपि । नभस्यभूदु द्वितीयेव, विनीता नगरी तदा ।। ५६ ।। परिवव्रे जगन्नाथः, प्रकृष्टसुरमानुषैः । मानुषोत्तरशिखरीवाऽहस्करनिशाकरैः ।। ५७ ॥ पार्श्वयोर्भरतबाहुबलिभ्यामुपसेवितः । रोधोभ्यामिव पाथोधिर्बभासे वृषभध्वजः ।। ५८ ।। अष्टानवत्या तनयैर्विनीतैरितरैरपि । अन्वगामि जगत्स्वामी, यूथनाथ इव द्विपैः ।। ५९ ।। माता पल्यौ च पुत्र्यौ च, स्त्रियोऽन्या अपि साश्रवः । सावश्यायकणाः पद्मिन्य इव प्रभुमन्वगुः ॥६०॥
RAKESHAVATARRAHERE
ऋषभप्रभो
दीक्षा
महोत्सवः ।
।। १३८ ।।