________________
त्रिषष्टिशलाकापुरुषचरिते
प्रथमं पर्व तृतीयः सर्गः श्रीऋषभस्वामिचरितम् ।
।।१३७ ॥
अनुत्तरविमानानां, विमानमिव किञ्चन । सुदर्शनाख्यां शिबिकां, पत्ये हरिरसूत्रयत् ।।२९ ।। दत्तहस्तो महेन्द्रेण, शिबिकामारुरोह ताम् । प्रभुः प्रथमसोपानमिव लोकाग्रवेश्मनः ।। ३० ।। आदौ रोमाञ्चितैर्मत्यैरमयैस्तदनन्तरम् । उद्दधे शिबिका मूर्तपुण्यभार इवाऽऽत्मनः ।।३१ ।। वर्यमङ्गलतूर्याणि, ताडितानि सुरासुरैः । अपूरयन् दिशो नादैः, पुष्करावर्त्तका इव ।। ३२ ।। चकाशे चामरद्वन्द्वं, पार्थतस्त्रिजगत्पतेः । नैर्मल्यमिव मूर्तिस्थं, परलोकेहलोकयोः ।। ३३ ॥ प्रीणितश्रवणो नृणामुच्चैर्जयजयारवः । चक्रे पत्युर्बन्दिवृन्दैरिव वृन्दारकव्रजैः ॥ ३४ ॥ नाथोऽपि शिबिकारूढः, पथि गच्छन्नराजत । सुरोत्तमविमानस्थशाश्वतप्रतिमोपमः ।।३५ ।। भगवन्तं तथाऽऽयान्तं, दृष्ट्वा सर्वेऽपि नागराः । सम्भ्रमादन्वधावन्त, पितरं बालका इव ।। ३६ ।। दूरतः स्वामिनं द्रष्टुं, जीमूतमिव केकिनः । उच्चपादपशाखासु, केचिदारुरुहुनराः ।। ३७ ।। केचिच्च स्वामिनं द्रष्टुमारूढा मार्गवेश्मसु । चन्द्रातपमिव प्रौढं, सूर्यातपमजीगणन् ।।३८ ।। अश्वानारुरुहुः केऽपि, कालक्षेपासहिष्णवः । त्वरितं स्वयमेवाऽश्वा, इव पुप्लुविरे पथि ।। ३९ ।। अन्तः प्रविश्य लोकानां, केऽपि वारामिवाऽऽतयः । अग्रे प्रादुर्भवन्ति स्म, स्वामिनो दर्शनेच्छया ॥४०॥ अभि त्रिभुवनाधीशं, धावन्त्यः काश्चिदङ्गनाः । वेगात् त्रुटितहारेण, लाजाअलिमिवाऽमुचन् ।। ४१ ।। आगच्छतो जगद्भर्तुरग्रे तस्थुर्दिदृक्षया । कटिस्थबाला आरूढवानरा इव वीरुधः ।। ४२ ॥ भुजावुभयतः सख्योः, काश्चिदालम्ब्य सत्वरम् । कृत्वा पक्षानिवाऽऽगच्छन्, कुचकुम्भभरालसाः ॥ ४३ ।। गतिभङ्गकरान् भारान्, स्वान् नितम्बान् मृगीदृशः । निनिन्दुः काश्चन स्वामिप्रेक्षणक्षणकाङ्क्षया ।। ४४ ।। १ आति जलनिवासी पक्षी ।
ऋषभप्रमोर्दीक्षा महोत्सवः ।
।।१३७॥