________________
त्रिषष्टिशलाकापुरुषचरिते
प्रथमं पर्व तृतीयः सर्गः श्रीऋषभस्वामिचरितम् ।
।।१३६ ॥
तत्पार्श्वयोश्चकाशाते, आपतन्तौ च चामरौ । भरतार्द्धद्वयादेष्यच्छ्रियोर्दूताविवाऽऽगतौ ।। १४ ।। चकासामास वासोभिर्मुक्तालङ्करणैरपि । गुणैरिव स्वैरत्यन्तविशदैर्वृषभात्मजः ।। १५ ।। शशीव स नवो राजा, महामहिमभाजनम् । नमश्चक्रे राजचक्रेणाऽऽत्मकल्याणकाम्यया ।। १६ ।। अथो ददौ बाहुबलिप्रभृतिभ्यो यथोचितम् । अन्येभ्योऽपि च पुत्रेभ्यो, विभज्य विषयान् विभुः ।। १७ ॥ ततश्च सांवत्सरिकं, दानमारभत प्रभुः । कल्पद्रुम इव स्वेच्छाप्रार्थनानुगुणं नृणाम् ।। १८ ।। यो येनाऽर्थी स तद् गृह्णात्वेवमाघोषणां विभुः । चतुष्पथप्रतोल्यादिस्थानेषूच्चैरकारयत् ।। १९ ।। चिरभ्रष्टानि नष्टानि, प्रक्षीणस्वामिकानि च । अतिप्रनष्टसेतूनि, गिरिकुञ्जगतानि च ।। २० ।। श्मशानस्थानगूढानि, गुप्तानि च गृहान्तरे । रजतस्वर्णरत्नादिधनान्याहृत्य सर्वतः ॥ २१ ॥ वासवादिष्टधनदप्रेरिता जृम्भकाः सुराः । ददतोऽपूरयन् भर्तुः, पयांसीव पयोमुचः ।। २२ ।।
त्रिभिर्विशेषकम्।। एकां कोटी हिरण्यस्य, लक्षाण्यथै च नाभिभूः । दिने दिने ददौ सूरोदयादाभोजनक्षणम् ।। २३ ॥ वत्सरेण हिरण्यस्य, ददौ कोटीशतत्रयम् । अष्टाशीतिं च कोटीना, लक्षाशीतिं च नाभिभूः ।। २४ ।। जातसंसारवैराग्या, दीक्षया स्वामिनो जनाः । शेषामात्रमदोऽगृह्णन्निच्छादानेऽपि नाऽधिकम् ।। २५ ।। अथ वार्षिकदानान्ते, वासवश्चलितासनः । भक्त्याऽन्य इव भरतो, भगवन्तमुपास्थित ।। २६ ।। समं सुरवरैरम्भस्कुम्भहस्तैर्जगत्पतेः । दीक्षोत्सवाभिषेकं स, चक्रे राज्याभिषेकवत् ॥ २७ ॥ मङ्खपनीतं तदधिकारिणेव बलारिणा । दिव्यालङ्कारवस्त्रादि, पर्यधत्त जगद्विभुः ।। २८ ।।
ऋषभप्रभोवार्षिक दानम् ।
||१३६ ।।