________________
तृतीयः सर्गः ।
त्रिषष्टिशलाकापुरुषचरिते
| प्रथनं पद तृर्तय सरः श्रीऋषभ स्वामिचरितम् ।
॥ १३५
आजूहवदथ स्वामी, सामन्तादीन् समन्ततः । भरतं बाहुबल्यादींस्तनयानितरानपि ।। १ ।। प्रभुईभाषे भरतं, राज्यमादत्स्व वत्स ! नः । वयं संयमसाम्राज्यमुपादास्यामहेऽधुना ॥२॥ स्वामिनो वचसा तेन, स्थित्वा क्षणमधोमुखः । प्राञ्जलिर्भरतो नत्वा, जगादैवं सगद्गदम् ।। ३ ।। त्वत्पादपद्मपीठाग्रे, लुठतो मे यथा सुखम् । रत्नसिंहासने स्वामिन्नासीनस्य तथा नहि ॥ ४ ॥ त्वदग्रे धावतः पद्भ्यां, यथा मम सुखं विभो ! । सलीलसिन्धुरस्कन्धाधिरूढस्य तथा नहि ।। ५ ।। त्वत्पादपङ्कजच्छायानिलीनस्य यथा सुखम् । जायते मे सितच्छत्रच्छायाच्छन्नस्य नो तथा ॥ ६ ॥ त्वया विरहितः स्यां चेत्, तत् किं साम्राज्यसम्पदा ? । त्वत्सेवासुखदुग्धाब्धे, राज्यसौख्यं हि बिन्दुवत् ।। ७ ।। स्वाम्यपीत्यवदद् राज्यमस्माभिस्तावदुज्झितम् । पृथ्व्यां च पार्थिवाभावे, मात्स्यो न्यायः प्रवर्तते ॥ ८ ॥ पृथिवीं तदिमां वत्स !, यथावत् परिपालय । आदेशकारकोऽसि त्वमादेशोऽप्ययमेव नः ॥९॥ सिद्धादेशं प्रभोरेवं, स लचितुमनीश्वरः । आमेत्यभाषत गुरुष्वेषैव विनयस्थितिः ।।१०।। प्रणम्य स्वामिनं मूर्धा, विनीतो भरतस्ततः । सिंहासनमलञ्चक्रे, पित्र्यं वंशमिवोन्नतम् ।। ११ ॥ स्वाम्यादेशादथाऽऽमात्यसामन्तानीकपादिभिः । प्रभोरिव सुरैश्चक्रेऽभिषेको भरतस्य तु ।। १२ ।। तदा च शुशुभे छत्रं, पार्वणेन्दुसहोदरम् । स्वामिनः शासनमिवाऽखण्डं भरतमूर्द्धनि ।।१३ ॥ १ यथा लघुमत्स्यान् गुरुमत्स्याः भक्षयन्ति तद्वद् राजानं विना लोका अपि एवं कुर्वन्ति ।
भरतस्य राज्याभिषेक.।
॥१३५ ।।