________________
त्रिषष्टिशलाका
पुरुषचरिते
।। १३४ ।।
तावत् सारस्वतादित्यवह्नयो वरुणा अपि । गर्दतोयास्तुषिताश्चाऽव्याबाधा मरुतस्तथा ||१०३५ ।। रिष्टाश्चेति नवभेदा, ब्रह्मलोकान्तवासिनः । देवा लोकान्तिकाः पादान्तिकमेत्य जगत्प्रभोः ।। १०३६॥ मूर्ध्नि न्यस्तैरञ्जलिभिः, पद्मकोशसहोदरैः । आसूत्रितापरोत्तंसा, इवैवं ते व्यजिज्ञपन् ॥ १०३७।। ।चतुर्भिः कलापकम् ।।
शक्रचूडामणिविभाम्भोमग्रचरणाम्बुज ! । भरत क्षेत्रनिर्नष्टमोक्षमार्गप्रदीपक ! ।। १०३८ ।। लोकव्यवस्था प्रथमा, यथा नाथ ! प्रवर्त्तिता । प्रवर्त्तय तथा धर्मतीर्थं कृत्यं निजं स्मर ॥१०३९॥ एवं देवास्ते प्रभुं विज्ञपय्य, स्वं स्वं स्थानं ब्रह्मलोके दिवीयुः । प्रव्रज्येच्छुः स्वाम्यपि स्वं निशान्तं सद्योऽयासीन्नन्दनोद्यानमध्यात् ||१०४० ॥
܀ ܀܀ ܀܀
| इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये प्रथमे पर्वणि भगवज्जन्म-व्यवहार- राज्यस्थितिप्रकाशनो नाम द्वितीयः सर्गः
प्रथमं पर्व द्वितीयः
सर्गः श्रीऋषभ - स्वामि
चरितम् ।
लोकान्तिक
देवैर्धर्म प्रवर्त्तनाय
विज्ञपनम् ।
।। १३४ ।।