________________
त्रिषष्टिशलाकापुरुषचरिते
प्रथमं पर्व द्वितीय. सर्गः श्रीऋषभस्वामिचरितम्
१३३ ॥
भूयोऽप्यचिन्तयदिदं, विगलन्मोहबन्धनः । धिगेष विषयाक्रान्तो, वेत्ति नाऽऽत्महितं जनः ॥१०१९ ।। अहो ! संसारकूपेऽस्मिन्, जीवाः कुर्वन्ति कर्मभिः । अरघट्टघटीन्यायेनैहिरेयाहिराक्रियाम् ।। १०२० ॥ धिग् धिग् मोहान्धमनसां, जन्मिनां जन्म गच्छति । सर्वथाऽपि मुधैवेदं, सुप्तानामिव शर्वरी ॥ १०२१ ।। एते रागद्वेषमोहा, उद्यन्तमपि देहिनाम् । मूलाद् धर्म निकृन्तन्ति, मूषिका इव पादपम् ॥ १०२२ ॥ अहो ! विवर्ध्यते मुग्धैः, क्रोधो न्यग्रोधवृक्षवत् । अपि वर्द्धयितारं स्वं, यो भक्षयति मूलतः ।। १०२३ ।। न किञ्चिन्मानवा मानाधिरूढा गणयन्त्यमो । मर्यादालचिनो हस्त्यारूढा हस्तिपका इव ॥ १०२४ ।। कापेकच्छूबीजकोशीमिव मायां दुराशयाः । उपतापकरी नित्यं, न त्यजन्ति शरीरिणः ।। १०२५ ।। दुग्धं तुषोदकेनेवाऽअनेनेव सितांशुकम् । निर्मलोऽपि गुणग्रामो, लोभेनैकेन दूष्यते ।। १०२६ ॥ कषाया भवकारायां, चत्वारो यामिका इव । यावज्जाग्रति पार्श्वस्थास्तावन्मोक्षः कुतो नृणाम् ? ।। १०२७ ।। अङ्गनालिङ्गनव्यग्रा, भूतात्ता इव देहिनः । समन्ततः क्षीयमाणमप्यात्मानं न जानते ॥१०२८ ॥ तत्तत्प्रकारैराहारैरात्मनोन्माद आत्मनः । उत्पाद्यतेऽनर्थकृते, सिंहारोग्यमिवौषधैः ।। १०२९ ।। सुगन्धीदं सुगन्धीद, किं श्रयामीति लम्पटः ? । मूढो भ्रमरवद् भ्राम्यन्न जातु लभते रतिम् ।।१०३०॥ आपातरमणीयैर्धिग, रमणीप्रायवस्तुभिः । प्रतारयति लोकः स्वं, बाल क्रीडनकैरिव ।। १०३१ ।। वेणुवीणादिनादेषु, दत्तको निरन्तरम् । स्वार्थाद् ध्रश्यति निद्रालुरिव शास्त्रानुचिन्तनात् ।। १०३२ ।। युगपद् विषयैरेभिर्वातपित्तकफैरिव । लुप्यते प्रबलीभूतैश्चैतन्यं धिक् शरीरिणाम् ।। १०३३ ।। एवं संसारवैराग्यचिन्तासन्ततितन्तुभिः । निःस्यूतमानसो यावद्, बभूव परमेश्वरः ।। १०३४ ॥
RAHASRAHASHASR9649
ऋषभ प्रमणा वैराग्यम् ।
॥१३३ ॥